सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 494, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 494

औपानुवाक्यम्
Digitized by Madhuban Trust
[ १४ । ७ ] बौधायनश्रौतसूत्रम् । १६३
जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान
खाहैत्य॑थ होतृचमसे वसतीवरीभ्यो ऽध्यपो निःषिच्य तस्य
स्वधाꣳ संभरति भूतिः सोमेन वर्धतां तस्य मेद्यस्य वीतस्य
द्रविणमागभ्यादिति॑ स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवन-
५ पतये स्वाहा भूतानां पतये स्वाहेति॑ । स यद्यह॑¹ दीर्णे
भवति प्रतिलिम्पत्येनं॑ यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी
अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादंशुं प्रस्क-
न्दयत्याधवनीये दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां चतुर्गृहीतं
गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वौ समुद्रौ
१० विततावजूर्या पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो
अतियन्त्यन्यमपश्यन्तः सेतुनातियन्त्यन्यꣳ स्वाहेत्य॑थ होतृच-
मसे वसतीवरीभ्यो ऽध्यपो निःषिच्य तस्य तथैव स्वधाꣳ
संभरति भूतिः सोमेन वर्धतां तस्य मेद्यस्य वीतस्य द्रविण-
मागभ्यादिति॑ स्कन्नमनुमन्त्रयते भूपतये स्वाहा भुवन-
१५ पतये स्वाहा भूतानां पतये स्वाहेति॑ । स यद्यह॑¹ दीर्णे
भवति प्रतिलिम्पत्येनं॑ यद्यु वै प्रवृत्त उच्छ्रित्यैनं बर्हिषी
अन्तर्धाय स्वधामानयत्यपोद्धृत्य बर्हिषी आग्रयणादेवाशुं
प्रस्कन्दयति॑ पूतभृति दीर्णे वा प्रवृत्ते वा तथैव पात्र्यां
चतुर्गृहीतं गृहीत्वाहवनीये जुहोत्यन्वारब्धे यजमाने द्वे द्रधसी
१ Thus here and infra ( 163. 15, 164. 6 ) M ; also Be at these
last mentioned passages ; यदि the other MSS. and Be, here, but
infra यद्युह ।
२ Thus here and infra M, the other MSS. every time the plural.