बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 490, कुल 774 में से
संदर्भ में पढ़ेंयो वै देवान्देवयग्रसेनान्वर्पयति मनुष्यान्मनुष्ययग्रसेन देव-
यग्रस्येव देवेषु भवति मनुष्ययग्रसी मनुष्येषु' यान्प्राचीन-
मायणाद्ग्रहान्गृह्णीयात्तानुपाꣳशु गृह्णीयाद्यानूर्ध्वाꣳस्तानुपब्दि-
मत इति' स यान्प्राचीनमाग्रयणाद्ग्रहान्गृह्णाति तानुपाꣳशु
गृह्णाति' यानूर्ध्वाꣳस्तानुपब्दिमतो' देवानेव तद्देवयग्रसेना-
र्पयति मनुष्यान्मनुष्ययग्रसेन' देवयग्रस्येव देवेषु भवति
मनुष्ययग्रसी मनुष्येष्विति ब्राह्मणं' ते यत्र वहिष्पवमानꣳ
स्रप्स्यन्तो भवन्ति तेषु समन्वारब्धेष्वान्हवनीये स्रुवाहुतिं जुहोत्यग्निः
प्रातःसवने पात्वस्मान्वैश्वानरो महिना विश्वशम्भूः । स नः पावको
द्रविणं दधात्वायुष्मन्तः सहभक्षाः स्याम स्वाहेति' माध्यंदिने
पवमाने तथैव समन्वारब्धेष्वान्हवनीये स्रुवाहुतिं जुहोति विश्वे
देवा मरुतो दून्द्रो अस्मानस्मिन्द्वितीये सवने न जह्युः ।
आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानाꣳ सुमतौ स्याम
स्वाहेत्यार्भवे पवमाने तथैव समन्वारब्धेष्वान्हवनीये स्रुवाहुतिं
जुहोतीदं तृतीयꣳ सवनं कवीनामृतेन ये चमसमैरयन्त ।
ते सौधन्वनाः सुवरानशानाः स्विष्टिं नो अभि वसीयो नयन्तु
स्वाहेत्य॑थ वै भवत्यायतनवतीर्वा अन्या आहुतयो हूयन्ते ऽना-
यतना अन्या' या आघारवतीस्ता आयतनवतीर्याः सौम्यास्ता
अनायतना' ऐन्द्रवायवमादायाघारमाघारयेदिति' स ऐन्द्र-
वायवमादायाघारमाघारयत्यध्वरो यज्ञो ऽयमस्तु देवा ओष-
धीभ्यः पशवे नो जनाय । विश्वस्मै भूतायाध्वरो ऽसि स पिन्वस्व
घृतवद्देव सोम स्वाहेति' सौम्या एव तदाहुतीरायतनवतीः