सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 474, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 474

इष्टिकल्पः
[ १३ । ३३-३५ । ] बौधायनश्रौतसूत्रम् । १४३
तस्या एते भवतो ऽपां नपादस्मन्वा यन्तौति ' यः पाप्मना१
गृहीतः स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेदित्येतयेष्ट्या
यक्ष्यमाण उपकल्पयते दधि पय आमिक्षाया इत्य॑थ देवस्य
त्वा सवितुः प्रसव इति प्रतिपदं कृत्वेन्द्रवरुणाभ्यां जुष्टं निर्व-
पामीति चतुरो मुष्टीन्व्रीहीणां निर्वपति ' हविष्कृता वाचं
विसृजते ' समानं कर्माधिवपनाद॑थैष दक्षिणार्धे गार्हपत्यस्यै-
कादश कपालान्युपदधाति ' यदैतं पुरोडाशमधिष्णक्ति तदै-
तामामिक्षां गार्हपत्ये श्रपयत्यथैतं पुरोडाशमुपस्तीर्णाभिघा-
रितमुद्वास्यामिक्षया संप्रच्छाद्यान्तर्वेद्यासादयति२ ॥ ३३ ॥
अथ वै भवति पयस्यायां पुरोडाशमवदधात्यात्मन्वन्तमेवैनं
करोत्यथो आयतनवन्तमेव ' चतुर्धा व्यूहति ' दिक्ष्वेव प्रति-
तिष्ठति ' पुनः समृहतीति ' स आमिक्षां पुरोडाशाच्चतुर्धा३
कृत्वा व्यूहति या वामिन्द्रावरुणा यतव्या तनूस्तयेममङ्‌हसो
मुञ्चतं या वामिन्द्रावरुणा सहस्या रक्षस्या तेजस्या तनूस्तये-
ममङ्‌हसो मुञ्चतमिति ' पुनः समृहति समूह्यावद्यतीति ' तस्या
एते भवत इन्द्रावरुणयोरहमिति इन्द्रावरुणा युवमध्वराय न इत्य॑थ
पुरस्तात्स्विष्टकृतः स्रुवाहुतीरुपजुहोति यो वामिन्द्रावरुणावमीवो
म्लाम्नं वामेतेनावयज इत्यष्टौ ' ॥ ३४ ॥ दशमः ॥
अथ वै भवति यो भ्रातृव्यवान्स्यात्स स्पर्धमान एतयेष्ट्या
१ Thus M ; पापयक्ष्म० the other MSS.
२ Thus M ; संछाद्य० all the other MSS.
३ Thus M and Bhav. ; पुरोडाशं चतुर्धा all the other MSS.