बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 43, कुल 774 में से
संदर्भ में पढ़ेंयजमानस्य गोपायेति ब्राह्मणम॑द्येनम्¹ स्रुवमाज्यस्य पूरयि-
त्वान्तरेण पुरोडाशाववदधात्यथैनानि² संपरिगृह्यान्तर्वेद्या-
सादयति भूर्भुवः सुवरित्येताभिर्व्याहृतीभिर्मध्यतः पुरोडाशा-
वासादयति दक्षिणतः शृतमुत्तरतो दध्यथैनम्¹ स्रुवमग्रेण
स्रुचः पर्याहृत्य दक्षिणेन जुह्वं प्रस्तरे सादयति स्योनो मे ५
सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके ।
दिवि सीद पृथिव्यामन्तरिक्षे ऽहमुत्तरो भूयासमधरे मत्पसत्ना
इत्यथैनं यथाहृतं³ प्रतिपर्याहृत्य ध्रुवायामवदधात्यृषभो ऽसि
शाकरो घृताचीनाग्ँ सूनुः प्रियेण नाम्ना प्रिये सदसि
सीदेति' ॥ १४ ॥ द्वादशः ॥ १०
अथेध्मात्समिधमाददान आहाग्नये समिध्यमानायानुब्रूही-
त्यथ यत्र होतुरभिजानाति प्र वो वाजा अभिद्यव इति
तत्रप्रथमामभ्यादधाति' प्रणवेप्रणवे ऽभ्यादधात्यथ यत्र होतु-
रभिजानाति समिद्धो अग्न आहुतेति तदन्ततो ऽभ्यादधाति'
परि समिधग्ँ शिनक्ष्यथ यत्र होतुरभिजानात्याजुहोतादुवस्य- १५
तेति तदेतेन⁴ वेदेन चिराहवनीयमुपवाजयत्यनूक्तासु सामि-
धेनीषु ध्रुवाप्यात्स्रुवेणोपहत्य वेदेनोपयम्य प्राजापत्यं तिर्यञ्च-
१-१ एनम् all MSS., also Prayoga Burnell, Keś. the second time and Sāyaṇa.
२ Thus Be HT Sāy. (sc. हवीग्ंषि); अथैतानि J, अथैनं B,
३ Thus Be JF; अथैनमथा B; अथैनदद्या TH.
४ तदेतेनैव Be J Sāy. (sec. m.)