सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 419, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 419

यवाग्रयणेनाथ चतुर्र्षु मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा¹ वरुणप्रघा-
सहविर्भरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते ।
ऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते । स एवमेव संतनीभ्या-
महरहर्विपर्यासं यजमानो ऽपरांश्चतुरो मास एति काम-
मिष्ट्वा कामं पशुबन्धेन कामँ श्यामाकाग्रयणेनाथ चतुर्र्षु
मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा साकमेधहविर्भरिष्ट्वा पौर्णमास-
वैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते । ऽथ श्वो भूते संतनीभ्या-
मेव प्रतिपद्यते । स एवमेव संतनीभ्यामहर्हविपर्यासं यजमानो
ऽपरांश्चतुरो मास एति काममिष्ट्वा कामं पशुबन्धेन कामं
व्रीह्याग्रयणेनाथ चतुर्र्षु मासेषु पर्यवेतेषु संतन्वेष्ट्येष्ट्वा शुनासी-
रीयहविर्भरिष्ट्वा पौर्णमासवैमृधाभ्यामिष्ट्वा प्रसिद्धं निर्वर्तयते ।
ऽथ श्वो भूते संतनीभ्यामेव प्रतिपद्यते । स एवमेव संतनीभ्या-
महरहर्विपर्यासं यजमानः सप्ताहान्येति काममिष्ट्वा कामं
पशुबन्धेनाथाष्टमे ऽह्नीन्द्रतुरीयमाग्नेयमष्टाकपालं निर्वपति
रौद्रं गावीधुकं चरुमैन्द्रं दधि वारुणं यवमयं चरुमन्वाहार्य-
मासाद्य वह्नीं धेनुं ददाति ॥ ३ ॥
अथ तदानीमेव पञ्चेध्मीयेन प्रतिपद्यते । पञ्चधाङ्गारा-
न्निरूह्य पञ्चेष्मान्ब्यादधाति पर्णमयं पुरस्तान्नैयग्रोधं दक्षिणत
आश्वत्थं पश्चादौदुम्बरमुत्तरतः प्राचं मध्ये । ऽथैनानाज्येन
व्याघारयति ये देवाः पुरःसदो ऽग्निनेत्रा रक्षोहणस्ते नः पान्तु


¹ Thus here and infra MT Be 11 ; संतन्वेष्ट्या B Bc.