सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 40, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 40

वेदे प्रतिष्ठाप्य तस्यां गृह्णीते शुक्रं त्वा शुक्रायां धाम्नेधाम्ने
देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृहीत्वा
संमृश्योद्यच्छत्यथोपाभृति गृह्णीते ज्योतिस्त्वा ज्योतिषि
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषाष्टगृहीतं
गृहीत्वा भूयसो ग्रहान्गृह्णानः कनीय आज्यं गृह्णीते ˈ तथैव
संमृश्योद्यच्छत्यथ ध्रुवायां गृह्णीते ऽर्चिस्त्वार्चिषि धाम्नेधाम्ने
देवेभ्यो यजुषेयजुषे गृह्णामीत्येतेन यजुषा चतुर्गृहीतं गृही-
त्वाभिपूर्य तथैव संमृश्योद्यच्छति ˈ ॥ १२ ॥ दशमः ॥
अथैतामाज्यस्थालीꣳ सस्रुवां जघनेन वेदिं निधाय
प्रोक्षणीरुन्नह्यत्यनुपोत्तिष्ठत्यापो देवीरग्रेपुवो अग्रेगुवो ऽग्र इमं
यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये
यूयमिन्द्रमवृणीध्वं वृत्रतूर्य इत्यद्भिरेवापः प्रोक्षति प्रोक्षिता स्थ
प्रोक्षिता स्थेति चिरं येधं विस्रस्य प्रोक्षति कृष्णो ऽस्याखरेष्ठो
ऽग्नये त्वा स्वाहेति ˈ वेदिं प्रोक्षति वेदिरसि बर्हिषे त्वा
स्वाहेति ˈ बर्हिः प्रोक्षति बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याहरन्त्ये-
तद्बर्हिरन्तरेण प्रणीताश्चाहवनीयं च ˈ तदन्तर्वेदि पुरोग्रन्थ्या-
साद्य प्रोक्षति दिवे त्वेत्यग्राण्यन्तरिक्षाय त्वेति मध्यानि पृथिव्यै
त्वेति मूलानि ˈ १सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्याति-
षिष्टाः प्रोक्षणीर्निर्नयति दक्षिणायै श्रोणेरोत्तरायै श्रोणेः
स्वधा पितृभ्य ऊर्ग्भव बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेत्युदूच्य
प्रोक्षणीधानं बर्हिर्विस्रस्य पुरस्तात्प्रस्तरं गृह्णाति विष्णो


१ Before सह TBII Be insert अथ ततः ; not found in JF Sāy.