सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 394, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 394

वाजपेयः
Digitized by Madhuban Trust
[ ११ । १ । ] बौधायनश्रौतसूत्रम् । ६३
वाजपेयेन यक्ष्यमाणो भवति' स उपकल्पयते कृष्ण-
जिनग् सुवर्णरजतौ च रुक्मौ बस्ताजिनग् शतमानग् हिरण्यग्
सप्तदश सुवर्णानि¹ कृष्णलानि हिरण्यपात्रं मधोः पूर्णमौदु-
म्बरग् रथचक्रग् सप्तदशारग् सप्तदशफलकां च श्रितिं² यूपं च
५ तूपरं चतुरश्रिग् सप्तदशारत्निं गोधूमकलापोष्णीषं³ नैवारग्
सप्तदशशरावग् सप्तदशोषपुटान्सप्तदश४ वायव्यानि सप्तदश
पृथुबुध्नान्युपयामान्सप्तं च वालं च सप्तदश निष्कान्सप्तदश वस-
नानि सप्तदश वासोभारान्सप्तदश रथान्सप्तदश दुन्दुभीन्सप्तदश
हस्तिनः सप्तदश दास्यः सप्तदशानाग्ंसि युक्तानि सप्तदश
१० गवाग् शतानि वयसोवयसो वा सप्तदश सहस्रं५ वा' तस्मिन्हि
सर्वाणि वयाग्ंसि भवन्ति' चतुर्विग्ंशतिं पशूनेकपञ्चाशत-
मश्वाञ्खादिरौ विष्टक्षौ६ बभ्रैर्व्यूतां७' प्रज्ञाता आग्निष्टोमिकाः
संभाराः' स ग्रीष्मस्य जघन्याहःसु पुरस्तादाषाढ्यै पौर्णमास्यै
१ सौवर्णानि U Be 11.
२ Thus M Tr Be (sec. m.) Bhav. (one copy); श्रुतिं U (sec. m.); the other MSS. श्रोतिं, स्रोतिं, ष्ट्रतिं (Bhav. another copy).
३ Thus MU Be 11; •कलापि• T Be B; •कलापा• F.
४ •पुटिकान् M (Bhav.).
५ साहसं M.
६ Thus M Tr Bhav.; विष्टक्षां U Be 11; विष्टक्षौ Be B; विष्टषा F; विष्ट H.
७ Thus FH; बभ्रैव्यू॰ Be 11 Bhav. (one copy); बभ्रैर्व्यू॰ Be and M (without, however, the r); बभ्रैयू॰ U; बैधैव्यू॰ B; बभ्रीव्यू॰ Tr.