बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 389, कुल 774 में से
संदर्भ में पढ़ेंDigitized by Madhuban Trust
५८ बौधायनश्रौतसूत्रम्। [ १० । ५५, ५६ । ]
पशुपुरोडाशं निर्वपति ।' तमनुवर्तन्ते ऽष्टौ देवसुवाग् हवीग्-
ष्यग्नये गृहपतय इत्येतानि ।' तानि नानावघ्नन्ति ।' नाना
श्रपयन्ति ।' नानाधान्यानि भवन्ति ।' प्रैषवान्पशुपुरोडाशो
ऽनुब्रूहि यजेतीतरेषाग् हविषाग् ।' स यत्र वारुणस्यावद्यन्नाह
वरुणाय धर्मपतये ऽनुब्रूहीति तदुपभृति स्विष्टकृते सर्वेषाग् ५
सकृत्सकृदुत्तरार्धादवद्यति ।' द्विरभिघारयति ।' न प्रत्यनक्त्य-
त्याक्रम्याश्राव्याह वरुणं धर्मपतिं यजेति ।' वषट्कृते जुहोत्यथ वै
भवतोष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा हस्तं गृह्णा-
तीति ।' स यद्येष्टो वरुणो भवत्यनिष्टः स्विष्टकृदथास्य ब्रह्मा
हस्तं गृह्णाति२ ॥ ५५ ॥ १०
सविता त्वा प्रसवानाग् सुवतामग्निर्गृहपतीनाग् सोमो
वनस्पतीनाग् रुद्रः पशूनां बृहस्पतिर्वाचामिन्द्रो ज्येष्ठानां मित्रः
सत्यानां वरुणो धर्मपतीनामित्येतदेव सर्वं भवति ये देवा
देवसुव स्थ त इममामुष्यायणममित्राय सुवध्वं महते
क्षत्राय महत आधिपत्याय महते जानराज्यायेत्यथैनं यज- १५
मानायतने तिष्ठन्तं प्राहैष वो ऽमी३ राजेति येषाग् श्रेष्ठौ
भवति ।' सोमो ऽस्माकं ब्राह्मणानां राजेतीतरे प्रत्याहुरथ
भूर्भुवः सुवरिति वाचं विसृजते ।' द्वाभ्यां मुखं विमृष्टे प्रति
१ Thus MU Be; नानावघ्नति H; नानावभ्रंति B; नानायिघ्नन्ति Ms;
तानि नाना पृथक हविघ्नन्ति (sic) Msc.
२ This clause is omitted in most of the MSS.
३ भरता (as TS. i. 8.10. d) Tr only, i. s. of मी ।
CC-0. Public Domain. Vipin Kumar Collection, Deoband