बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 385, कुल 774 में से
संदर्भ में पढ़ें५४ बौधायनश्रौतसूत्रम् । [ १० । ५१, ५२ । ]
ब्राह्मणं ' तासां द्वे परिगृह्यवती भवतो ' ऽथ विषुवत्याग्नीध्रस्य
काले पृश्निमश्मानं निदधाति विमान एष दिव उच्चा
समुद्र इति द्वाभ्यामथ चतसृभिरा पुच्छादेतीन्द्रं विश्वा
अवीवृधन्निति ' धारयन्त्येतमग्निमथैनग्ँ संचितमाज्यप्रोक्षणेण
प्रोक्षति ॥ ५१ ॥ ५
वसवस्त्वा रुद्रैः पुरस्तात्पान्तित्विति पुरस्तात्पितरस्त्वा यम-
राजानः पितृभिर्दक्षिणतः पान्तित्विति दक्षिणत आदित्यास्त्वा
विश्वैर्देवैः पश्चात्पान्तित्विति पश्चाद्युतानस्त्वा मारुतो मरुद्भिरुत्त-
रतः पान्तित्वित्युत्तरतो देवास्त्वेन्द्रज्येष्ठा वरुणराजानो ऽधस्ता-
च्चोपरिष्टाच्च पान्तित्वित्युपरिष्टादथैतेनैव सहाग्निनाधिद्रवति १०
प्राचीमनु प्रदिशं प्रेहि विद्वाञ्क्रमध्वमग्निना नाकमुख्यं पृथिव्या
अहमदुन्तरिक्षमारुहग्ँ सुवर्यन्तो नापेक्षन्त ऽग्ने प्रेहि प्रथमो
देवयतामिति पञ्चभिर्धारयन्त्येतमग्निमथ दध्नः पूर्णामौदुम्बरीग्ँ
स्वयमातृण्णायां जुहोति ' नक्तोषासेति पुरोऽनुवाक्यामनूच्याग्ने
सहस्राक्षेति जुहोत्य'थ प्रदक्षिणमावृत्यैनं प्रतिष्ठापयति सुपर्णो १५
ऽसि गरुत्मानिति ' तिसृभिः सादयतीति ब्राह्मणमथैनं
विस्रस्याङ्कतिषाहं कृत्वाध्वराङ्कतिभिरभिजुहोत्यग्निर्यज्ञं नयतु
प्रजानन्नैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूताद्यज्ञं प्रप्र यज्ञपतिं
तिर स्वाहा वायुर्यज्ञं नयतु प्रजानन्सूर्यो यज्ञं नयतु प्रजा-
नन्यज्ञो यज्ञं नयतु प्रजानन्नैनं यज्ञहनो विदन्देवेभ्यः प्रब्रूता- २०
द्यज्ञं प्रप्र यज्ञपतिं तिर स्वाहेत्यावद्रुत्याग्निवत्युत्तरं परिग्राहं
परिगृह्य योपयित्वा तिर्यञ्चग्ँ स्फ्यग्ँ स्तब्ध्वा संप्रैषमाह