बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 38, कुल 774 में से
संदर्भ में पढ़ें[ १ । २१ ] बौधायनश्रौतसूत्रम् । १७
तथैव संमृज्याद्भिः संस्पृश्य प्रतितप्योत्प्रयच्छत्यथैतानि स्रुक्सं-
मार्जनान्यद्भिः संस्पृश्य गार्हपत्ये ऽनुप्रहरति दिवः शिल्पमवततं
पृथिव्याः ककुभिः श्रितं तेन वयङ् सहस्रवल्शेन सपत्नं
नाशयामसि स्वाहेत्यथाग्रेणोत्करं तृणानि संस्तीर्य तेषु स्रुचः
५ सादयित्वैतां पत्नीमन्तरेण वेद्युत्करौ प्रपाद्य जघनेन
दक्षिणेन गार्हपत्यमुदीचीमुपवेश्य योक्त्रेण संनह्यत्याशासाना
सौमनसं प्रजाङ् सौभाग्यं तनूमग्नेरनुव्रता भूत्वा संनह्ये सुकृताय
कमिति ' [अथैनां वाचयति युक्तं क्रियाता आग्नीः कामे
युज्याता इति]१ ' अथैनां तिरः पवित्रमप आचामयति पय-
१० स्वतीरोषधयः पयस्वद्वीरुधां पयः । अपां पयसो यत्पयस्तेन
मामिन्द्र संसृजेत्यथैनां गार्हपत्ये समिध आधापयत्यग्ने
व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताङ् स्वाहा
वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते व्रतं चरि-
ष्यामि तच्छकेयं तन्मे राध्यताङ् स्वाहेत्यथ जघनेन गार्हपत्य-
१५ मुपसीदति सुप्रजसस्त्वा वयङ् सुपत्नीरूपसेदिम । अग्ने
सपत्नदम्भनमदब्धासो अदाभ्यम् ॥ इन्द्राणीवाविधवा भूया-
समदितिरिव सुपुत्रा । अस्तूरि त्वा गार्हपत्योपनिषदे
सुप्रजास्त्वाय ॥ मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् ।
उताहमस्मि संजया पत्युर्मे श्लोक उत्तम इति ' [अथैनां
१ The passage enclosed in brackets is only found in BF;
Sāyaṇa remarks about it: अथ सुकृताय कमित्यस्यानन्तरं युक्तं... युज्याता
इत्यस्यापि पत्न्या वाचनं ब्राह्मणप्रमाणकम् ।
3