बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 373, कुल 774 में से
संदर्भ में पढ़ें४२ बौधायनश्रौतसूत्रम् । [ १० । ४४, ४५ । ]
उपधास्यन्भवति ता ' एतद्भमादायोत्तरे श्रोण्यन्ते सᳵसादय-
न्त्येथ द्वाभ्यामात्मन्यग्निं गृह्णीते मयि गृह्णाम्यग्रे अग्निं यो नो
अग्निरिति ' स्वयंचितिं जपति यास्ते अग्ने समिधो यानि
धामेति ' श्वेतमश्वमभिमृश्याधिद्रवत्यपामिदं नयनं नमस्त
इति द्वाभ्याम॑थाधिद्रुत्य चतुर्थे संचिताहुती जुहोत्यग्रे ५
किᳵशिल तच्चा यामीति ' दक्षिणतो विभक्तिमुपदधात्यग्रे
स्तोमं मनामह इति ' तयादेवतं कृत्वा सूददोहसं करोत्य॑थैताः
सप्त स्कन्ध्याः प्राचीरायातयति द्वे ऋतव्ये स्वरा॑जं च विश्व-
ज्योतिषं चैकाᳵ सयुजं द्वे संयान्यावृ॑तव्ये उपदधाति तपश्च
तपस्यश्चेत्ये॑वकामनूपदधात्य॑ग्रेरनीकसीति स्वरा॑जं च विश्व- १०
ज्योतिषं च स्वराट् ज्योतिरधारयत्प्रजापतिस्त्वा सादयत्वित्यु-
त्तराभ॑थ सयुजमुपदधाति रय्यै पोषाय सजातानां मध्यमस्थे-
याय मया त्वा सयुजा युजा युनज्मीत्य॑थ संयान्यावुपदधा-
त्यन्तरिक्षमस्त्वन्तरिक्षाय वेति ' तयादेवतं कृत्वा सूददोहसः
करोति ' ॥ ४४ ॥ १५
अथासपत्ना उपदधात्यग्रे जातान्प्रणुदा नः सपत्नानिति
पुरस्तादुपदधाति सहसा जातानिति पश्चाच्चतुरुत्तरिᳵश
स्तोम इति दक्षिणतः षोडश स्तोम इत्युत्तरतस्तासां पुरीष-
वतौ मध्य उपदधाति पृथिव्याः पुरीषमस्यप्सो नामेति ' तया-
देवतं कृत्वा सूददोहसः करोत्य॑थ विराज उपदधात्यवस्कन्दो २०
वरिवस्कन्द इति चत्वारिᳵशतं दशदश दिक्षु न मध्ये ' ऽष्टा-
योपदधातीति ब्राह्मणं ' तयादेवतं कृत्वा सूददोहसः करो-