बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 362, कुल 774 में से
संदर्भ में पढ़ेंद्रुपत्सस्कन्देत्यास्ये ऽभूर्दिदं विश्वस्य भुवनस्य वाजिनमिति
दक्षिणस्यां नासिकायामग्नेर्वैश्वानरस्य चेत्युत्तरस्यामग्निर्ज्योतिषा
ज्योतिष्मानिति दक्षिणे ऽक्षिण रुक्मो वर्चसा वर्चस्वानित्युत्तर
ऋचे लेति दक्षिणे कर्णे रुचे लेत्युत्तरे ' ऽथ स्रुचि चतुर्गृहीतं
५ गृहीत्वा दक्षिणे ऽक्षिण जुहोति चित्रं देवानामुदगादनीक-
मित्यपरं चतुर्गृहीतं गृहीत्वोत्तरे ऽक्षिण जुहोति चित्रं देवा-
नामिति ' समान्या जुहोतीति ब्राह्मणमथैनद्दध्ना मधुमिश्रेण
पूरयति समित्स्रवन्ति सरितो न धेना इत्यान्तादनुवाकस्यो-
र्ध्वेनत्राचीनमुत्तानमुखायामुपदधाति ॥ ३३ ॥
१० आदित्यं गर्भं पयसा समञ्जन्त्वित्यनुद्रुत्येमं मा हिंसीर्द्वि-
पादं पशूनामिति ' मयुमारण्यमनु ते दिशामीति शुचमनूत्सृ-
जति ' ललाटे हिरण्येष्टकामुपदधाति विश्वकर्मा दिशां पतिरि-
त्यथ पुरस्तात्प्रत्यङ्मुख उपविश्यान्तरात्मन्नश्वस्य शिर उपदधाति
वातस्य भ्राजिं वरुणस्य नाभिमित्यनुद्रुत्येमं मा हिंसीरेकशफं
१५ पशूनामिति ' गौरमारण्यमनु ते दिशामीति शुचमनूत्सृजति '
ललाटे हिरण्येष्टकामुपदधाति प्रजापतिर्दिशां पतिरित्यथ
पश्चात्प्राङ्मुख उपविश्यान्तरात्मनृषभस्य शिर उपदधात्यजस्र-
मिन्दुमरुषं भुरण्युमित्यनुद्रुत्येम ँ समुद्र ँ शतधारमुत्समिति '
गवयमारण्यमनु ते दिशामीति शुचमनूत्सृजति ' ललाटे
२० हिरण्येष्टकामुपदधाति रुद्रो दिशां पतिरित्यथ दक्षिणत
उदङ्मुख उपविश्यान्तरात्मन्वृष्णोः शिर उपदधाति वरूत्रीं
त्वष्टुर्वरुणस्य नाभिमित्यनुद्रुत्येमामूर्णांयुं वरुणस्य मायामित्यु॑द्रु-