बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 356, कुल 774 में से
संदर्भ में पढ़ें[Digitized by Madhuban Trust]
[Handwritten: अग्निचयनम्]
[ १० । २६, २७ । ] बौधायनश्रौतसूत्रम् । २५
मा नो हिँसीज्जनिता यः पृथिव्या इत्य॑थ दक्षिणं पक्ष-
मनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते॑ तमन्तःशर्करं न्यस्यत्यभ्या-
वर्तस्व पृथिवीत्य॑थ पुच्छमनुद्रुत्य बहिःशर्कराल्लोष्टमादत्ते॑
तमन्तःशर्करं न्यस्यत्यग्ने यत्ते शुक्रं यच्चन्द्रमित्य॑थोत्तरं पक्षमनु-
५ द्रुत्य बहिःशर्कराद्द्वौ लोष्टावादत्त इषमूर्जमहमित आदद
इति॑ तयोरन्यतरमन्तःशर्करं न्यस्यत्या नो गोषु विशत्वौषधी-
ष्विति॑ तां दिशमितरं निरस्यति यस्यामस्य दिशि द्वेष्यो
भवति जहामि सेदिमनिराममीवामित्याददान एवैतां दिश-
मभि संपाद्येदित्येतदेकं॑ यजुषा॑ यजुर्विपरिहरेदित्येतदपर-
१० म॑थ महावेद्या उत्तरादँसीयाच्छङ्कोर्विद्यन्तेन चोन्प्रतीचः प्रक्र-
मान्प्रक्रामत्युदञ्चं चतुर्थ॑ं तच्चालाञ्चाष्टाता चात्वालं परिलिख-
त्यु॑त्तरवेदेराष्टातोत्तरवेदिं निवपत्यु॑त्तरनाभिमुत्स्वाद्य सिकता
निवपत्यग्ने तव श्रवो वय इति षड्भिरनुच्छन्दसमथोर्ध्वचित
उपदधाति चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देव-
१५ तयाङ्गिरस्वद्ध्रुवाः सीदतेत्य॑थानुव्यूहत्याप्यायस्वेति गायत्र्या
ब्राह्मणस्य सं ते पयाँसीति त्रिष्टुभा राजन्यस्य॑ यथासृष्टु
यथाशर्करमनुव्यूहति॑ ॥ २६ ॥ सप्तमः ॥
अथैतां महाचितिँ सँ²सादयन्त्यग्रेण¹ शालामुच्छ्राय्यां वा
१ MB Be Tr U Ms ins. वा ; H om. this word as also the
Dvaidhasūtra.
२ संसादयत्य• H Tr Bhav.
†