सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 34, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 34

दर्शपूर्णमासौ
[१ ६,१०।] बौधायनश्रौतसूत्रम् । १३
यज्ञपतिः प्रथतामिति १ तं तन्वन्तं कूर्मप्रकारं करोति १ सर्वाणि
कपालान्यभिप्रथयतीति ब्राह्मणम् १ ॥ ६ ॥
अथ तिरः पवित्रमाज्यस्थास्यामाज्यं निर्वपति महीनां
पयो ऽस्योषधीनां꣢ रसस्तस्य ते ऽक्षीयमाणस्य निर्वपामि
५ देवयज्याया इत्य॑थोत्तरतो भस्ममिश्रानङ्ग़ारान्निरूह्य तेष्वधि-
श्रयत्ये॑वमेवोत्तरं पुरोडाशमधिश्रपयत्य॑ शृतमथ दध्य॑थ पात्रा-
मप आनीय दक्षिणस्य पुरोडाशस्य त्वचं ग्राहयति त्वचं
गृह्णीष्व त्वचं गृह्णीष्वेति त्रि॒िर॑थोत्तरस्या॑थ पर्यग्नि करोत्यन्त-
रितं꣢ रक्षो ऽन्तरिता अरातय इति त्रिर॑थ दक्षिणं पुरो-
१० डाशं꣢ श्रपयति देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके
ऽग्निरस्ते तनुवं माति धागिति १ गार्हपत्यमभिमन्त्रयते ऽग्ने
हव्यं꣢ रक्षस्वेत्ये॑वमेवोत्तरं पुरोडाशं꣢ श्रपयत्य॑थ दक्षिणं
पुरोडाशं भस्मनाभिवास्य वेदेनाभिवासयति सं ब्रह्मणा पृच्यस्व
सं ब्रह्मणा पृच्यस्वेति त्रिर॑थोत्तरम॑विदहन्त॑ श्रपयतेति वाचं
१५ विसृजते १ ऽचैतत्पात्रीसंक्षालनं गार्हपत्यादङ्गाररेणाभितप्य छत्वा-
न्वैर्वेदि प्रतीचीनं तिसृषु लेखासु निनयत्येकताय स्वाहा
द्विताय स्वाहा त्रिताय स्वाहेत्य॑थ वेदमादत्ते ऽयं वेदः
पृथिवीमन्वविन्दद्गुहा सतीं गहने गह्वरेषु । स विन्दतु
यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोत्विति १ वेदेन
२० वेदिं त्रिः संमार्ष्टि वेदेन वेदिं विविदुः पृथिवीं꣢ सा पप्रथे
१ The visarga omitted by Be BTF, written by JH.