बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 319, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 319२६८ बौधायनश्रौतसूत्रम् । [ ९ । २० । ]
२६८ बौधायनश्रौतसूत्रम् । [ ९ । २० । ]
न विप्रोषितो¹ ' न पर्यावृत्ते ' नाभ्रच्छायायां² ' न ग्राम्यस्य
पशोरन्ते ' नारण्यस्य ' नापामन्ते ' न हरितयवान्प्रेक्षमाणो³ '
न हर्म्याणि ' न शरीराणि ' न लोहितमुत्पतितं दृष्ट्वा ' न
मांसमशित्वा ' न श्राद्धं भुक्त्वा ' न केशश्मश्रु वापयित्वा ' न
केशान्प्रसार्य⁴ ' न दतो धावते ' नाङ्क्ते ' नाभ्यङ्क्ते ' नार्द्रो ' ५
नार्द्रेण वाससा ' नार्द्रे⁵ इत्येव स्वाध्यायमधीयीतापरेणाग्निं
दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनङ् स्वाध्यायमधीयीत '
⁶ यत्र कचाग्रान्निक्षिप्तं पश्येत्पुनरेव शान्तिं कृत्वाधीयीताधीत्य
चोत्तमेन° प्रवर्ग्यायोपनिष्क्रम्य⁸ नाप्रविश्य ग्राममन्यदधीयी-
तान्यदधीयीत ॥ २० ॥ षष्ठः ॥ १०
॥ इति नवमः प्रश्नः ॥
१ Thus E; विप्रोषिते Ta; विपुषिते T.
२ Thus E Ta; नाभ्रे न छायायां T.
३ Thus E; प्रेक्षमाणे Ta; प्रेक्षते T.
४ Thus E T. (comp. Hir. प्रविष्य) ; प्रसार्य Ta.