बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 31, कुल 774 में से
संदर्भ में पढ़ेंप्रब्रूतादिति ' चिष्फलीकृतान् प्राङ्निष्फलीक्रियमाणानां यो
न्यङ्गो ऽवशिष्यते । रक्षसां भागधेयमापस्तत्प्रवहतादिति
तण्डुलप्रक्षालनमन्तर्वेदि निनयत्युत्करदेशे वै'तस्मिन् काले
प्रातर्दोहं धेनूर्दोहयत्युदगग्रेण पवित्रेण ' नाचामन्ति ' ॥ ६ ॥
पञ्चमः ॥
अथ प्रोक्तेषु निष्फलीकृतेषु तथैव कृष्णाजिनमवधूनोत्यू-
र्ध्वग्रीवमुदङ्ङावृत्यावधूतꣳ रक्षो ऽवधूता अरातय इति चिरस्यै-
नत्पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणात्यदित्यास्त्वगसि प्रति
त्वा पृथिवी वेत्त्विति ' तस्मिन्नुदीचीनकुम्बाꣳ शम्यां निदधाति
दिव स्तम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्विति ' तस्यां प्राचीं १०
दृषदमध्यूहति धिषणासि पर्वत्या प्रति त्वा दिव स्तम्भनिर्वे-
त्त्विति ' दृषदुपलामध्यूहति धिषणासि पार्वतेयी प्रति त्वा पर्व-
तिर्वेत्त्विति ' तस्यां पुरोडाशीयानधिवपति देवस्य त्वा सवितुः
प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामग्नये जुष्टमधिवपाम्यग्नी-
षोमाभ्याममुष्मा अमुष्मा इति यथादैवतम्१'धिवदते२ धान्य- १५
मसि धिनुहि देवान्धिनुहि यज्ञं धिनुहि यज्ञपतिं धिनुहि
मां यज्ञनियमिति ' पिनष्टि प्राणाय त्वापानाय त्वा व्यानाय
त्वेति ' बाहू अन्ववेक्षते दीर्घामनु प्रसितिमायुषे धामिति '
कृष्णाजिने पिष्टानि प्रस्कन्दयति देवो वः सविता हिरण्य-
१ यथादैवत० most MSS.
२ Thus HB and Sāyaṇa, who comments: अधिवप्य जपति; अधि-
वदतो T, अधिवपते J, अधिवपतेऽभिमृश्य जपति Be Keś.; अभिमृश्य जपति F'.