बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 309, कुल 774 में से
संदर्भ में पढ़ें२८८ बौधायनश्रौतसूत्रम् । [ ६ । १५, १६ । ]
मधुमिश्रेण समज्याभ्यग्राभ्यां १ प्रतीचीनाग्रे सꣳस्पृष्टे सादयत्यथैते
धवित्रे दध्ना मधुमिश्रेण समज्य जघनेन पृष्टी सꣳस्पृष्टे सादय-
त्यथैता दशौदुम्बरीः समिधो दध्ना मधुमिश्रेण समज्य जघनेन
धवित्रे प्रतीचीनाग्राः सꣳस्पृष्टा विस्तीर्णात्यथैतामाज्यस्थालीं
दध्ना मधुमिश्रेण पूरयित्वा जघनेनाग्निꣳ सꣳस्पृष्टाꣳ सादय- ५
त्यथैतद्धवित्रं दध्ना मधुमिश्रेण समज्य तेनाज्यस्थालीमपिदधा-
त्यथैते रौहिणकपाले दध्ना मधुमिश्रेण समज्य जघनेनाज्य-
स्थालीꣳ सꣳस्पृष्टे सादयत्यथैतꣳ स्रुवं दध्ना मधुमिश्रेण पूरयित्वा
जघनेनाज्यस्थालीमन्तरेण रौहिणकपाले प्रतीचीनबिलꣳ
सꣳस्पृष्टꣳ सादयत्यथैतं कुशमयं वेदं विस्रस्य दध्ना मधुमिश्रेण १०
समज्य जघनेनाज्यस्थालीं प्रतीचीनाग्रꣳ सꣳस्पृष्टं विस्तीर्णा-
त्यैतामासन्दीं विस्रस्य दध्ना मधुमिश्रेण समज्याचैवोत्तरतः
सꣳस्पृष्टाꣳ सादयत्यथैतां मृदमतिशिष्टां दध्ना मधुमिश्रेण
समज्यान्तरेण सक्थिनी निवपति ॥ १५ ॥
घर्मैतत्ते ऽन्नमेतत्पुरीषं तेन वर्धस्व चा च प्यायस्व वर्धिषी- १५
महि च वयमा च प्यासिषीमहीत्यथैनꣳ सिकताभिरनुप्रकीर्य
मुञ्जप्रलवैरनुविप्राच्य रौहिणपिष्टैरनुप्रकीर्य कृष्णाजिनेन प्राचीन-
ग्रीवेणोत्तरलोम्ना प्रोर्णोत्यपि वाभितः प्रचरणीयं महावीरं
परिचिनोत्यादित्यमण्ड लवदथैनमुपतिष्ठते ऽयं यः पुरुषरूपो
ऽसि स न आस्से न तिष्ठसि । नोर्ध्वा न तिर्यग्विधां ते ऽनु २०
विच्छितो ऽस्मि विधां मे ऽनु विहितो ऽसि यस्त्वमसि सो
१ Thus TB Bh. ; अधियग्राभ्यां J Keś. ; अधिया अग्राभ्यां PIF.