सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 300, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 300

प्राङ् हरति तेजो ऽसि तेजो ऽनु प्रेह्यग्निर्मा पृथिव्याः पातु
वायुरन्तरिक्षात्सूर्यो दिवो दिविस्पृङ्मा मा हिꣳसौरन्तरिक्ष-
स्पृङ्मा मा हिꣳसीः पृथिविस्पृङ्मा मा हिꣳसीः सुवरसि सुवर्मे
यच्छ दिवं यच्छ दिवो मा पाहीत्य॑थ वातनामानि व्याचष्टे
५ समुद्राय त्वा वाताय स्वाहेति पञ्चानवानमेवमेव द्वे उत्तरे॑ ।
षडुत्तराणि यथोपपादमग्नये त्वा वसुमते स्वाहा सोमाय
त्वा रुद्रवते स्वाहा वरुणाय त्वादित्यवते स्वाहा बृहस्पतये त्वा
विश्वेदेव्यावते स्वाहा सवित्रे त्वर्भुमते विभुमते प्रभुमते
वाजवते स्वाहा यमाय त्वाङ्गिरस्वते पितृमते स्वाहेति॑ । विश्वा
१० आशा दक्षिणसदिति दक्षिणत आसीनं ब्रह्माणमीक्षते॑ । विश्वा-
न्देवान्याडिहेति पश्चादासीनꣳ होतारम्॑ । सव्येनात्याक्रामञ्ज-
पति स्वाहाकृतस्य घर्मस्य मधोः पिवतमश्विना स्वाहाग्नये
यज्ञियाय शं यजुर्भिरिति॑ । यजमानमतिवाचयत्यश्विना घर्मं
पातꣳ हार्दि वानमहर्दिवाभिरूतिभिरनु वां द्यावापृथिवी मन्-
१५ सातामित्यु॑च्चैराश्राव्याह घर्मस्य यजेति॑ । वषट्कृते जुहोति
स्वाहेन्द्रायेति॑ । स्वाहेन्द्रावदित्यनुवषट्कृते उभा वाचयति घर्म-
मपातमश्विना हार्दि वानमहर्दिवाभिरूतिभिरनु वां द्यावा-
पृथिवी अमꣳसातां तं प्राव्यं यथावट् नमो दिवे नमः पृथिव्यै
दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा दिवं गच्छान्तरिक्षं
२० गच्छ पृथिवीं गच्छ पञ्च प्रदिशो गच्छ देवान्घर्मपाङ्गच्छ
पितॄन्घर्मपाङ्गच्छेत्येत॑स्मिन्काले प्रतिप्रस्थाता पिन्वनेनोपयमना-
दुपहत्य प्रचरणीयं महावीरं पूरयत्यथैनमन्तःपरिध्यभिपौप-