बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 295, कुल 774 में से
संदर्भ में पढ़ें२७४ बौधायनश्रौतसूत्रम् । [ ९ । ६, ७ । ]
श्वावापराह्निके ' ऽथाध्वर्युः प्रचरणीयं महावीरꣵ शफाभ्यां
परिगृह्य सव्ये पाणौ समावृत्याज्यस्थाल्याः सस्रुदुपहृतेनाज्येन
गार्हपत्ये ऽनवानꣵ संतताः सप्त प्राणाहुतीर्जुहोति प्राणाय
स्वाहा व्यानाय स्वाहापानाय स्वाहा चक्षुषे स्वाहा श्रोत्राय
स्वाहा मनसे स्वाहा वाचे सरस्वत्यै स्वाहेति ' चतस्र उत्तरा ५
यथोपपादं दक्षाय स्वाहा क्रतवे स्वाहौजसे स्वाहा बलाय
स्वाहेत्यथैनमाज्येनानक्ति देवस्त्वा सविता मध्वानक्त्वित्येतस्मिन्काले
प्रतिप्रस्थाता राजतꣵ रुक्मं प्रवृञ्जनीये खर उपगूहति पृथिवी
तपस्त्वानुशिक्षेत्यथ मुञ्जप्रलवान्व्यतिषज्यादीपयत्यर्चिरसि शोचि-
रसि ज्योतिरसि तपो ऽसीति ' तान्युत्प्रवृञ्जनीये¹ खरे संप्रकीर्य १०
तेषु प्रचरणीयं महावीरꣵ सꣳसादयति ॥ ६ ॥
सꣳसीदस्व महाꣵ असि शोचस्व देववीतमः । वि धूममग्ने
अरुषं मियेध्य सृज प्रशस्त दर्शतमित्यथैनमाज्येन पूरयत्यञ्जन्ति
यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र
उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादीदित्यस्य प्रादेशेन १५
दिशो व्याख्यापयत्यनाधृष्या² पुरस्तादग्नेराधिपत्य आयुर्मे दा
इति पुरस्तात्पुत्रवती दक्षिणत इन्द्रस्याधिपत्ये प्रजां मे दा
इति दक्षिणतः । ' सुषदा पश्चाद्देवस्य सवितुराधिपत्ये प्राणं मे
दा इति पश्चादाश्रुतिरुत्तरतो मित्रावरुणयोराधिपत्ये श्रोत्रं
१ तान्प्र० BT Keś. अथैतान्प्र० or अथैनान्प्र० the other MSS.
२ Thus BTI Bh. and HP (the last two व्याख्या०); FJ: वयख्या०; Keś. thrice व्याख्यापयत्य०