सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 292, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 292

[प्रवर्ग्यः]
Digitized by Madhuban Trust
[ ६ । ५ । ] बौधायनश्रौतसूत्रम् । २७१

शफोपयमनमौदुम्बरꣳ स्रुवमौदुम्बर्यौ स्रुचावनिष्कीर्णे रौहिण-
हवणी द्वे औदुम्बर्यौ धृष्टी त्रीणि धवित्राणि कार्ष्णाजिनान्यौ-
दुम्बरदण्डानि ' वैणवदण्डानीत्येके ' षडौदुम्बराञ्छकलांश्चैकङ्कतौ
च १ समिधं त्रयोदश वैकङ्कतानपरिधीन्वैकङ्कतीꣳ स्रुचं प्रचरणीं
५ कार्ष्मर्यमयानपरिधीन्सुवर्णरजतौ च रुक्मौ द्वे घर्मदुघे धेनुं च
छागां च द्वौ कुशमयौ वेदावेकं मौञ्जं वेदमपरिवासितं मौञ्जं
रज्जुदाम मुञ्जप्रलवान्रौहिणपिष्टानि खरेभ्यः सिकता इत्य॑थ
प्रायणीयेन चरति॑ प्रायणीयेन चरित्वा पदेन चरति॑ पदेन
चरित्वा राजानं क्रीत्वोद्वातिथ्यं २ निर्वपत्यातिथ्येन प्रचार्य पूर्वाꣳ
१० शान्तिमुपयन्ति नमो वाच इत्य॑थाग्रेण गार्हपत्यं तृणानि
सꣳस्तीर्य तदेतत्परिघर्म्यꣳ सर्वꣳ सꣳसादयन्त्य॑त्र सम्राडासन्दी-
मत्र स्थूणां गोदोहनीमत्र छागायै शङ्कुमित्य॑थोत्तरेण गार्ह-
पत्यꣳ स्फेनोद्धृत्यावोक्ष्य सिकता निवपति॑ तं प्रादेशमात्रं
परिमण्डलं प्रवृञ्जनीयं खरं करोत्य॑थैनꣳ सिकताभिराश्राग्निनं
१५ करोत्य॑थोत्तरेणाहवनीयꣳ स्फेनोद्धृत्यावोक्ष्य सिकता निव-
पति॑ तं प्रादेशमात्रं परिमण्डलमुद्वासनीयं खरं करोत्य॑थैनꣳ
सिकताभिराश्राग्निनं करोत्य॑थोत्तरे शालाखण्डे स्फेनोद्धृत्या-
वोक्ष्य सिकता निवपति॑ तं चतुरश्रं ३ निस्यन्दनवन्तमुच्छ्रितखरं
करोत्य॑थैनꣳ सिकताभिराश्राग्निनं करोत्य॑थाध्वर्युः प्रचरणीयं


१ om. IHP.
२ क्रीत्वोद्वा० only I.
३ Thus BTBh.; •स्रं the other MSS.


CC-0. Public Domain. Vipin Kumar Collection, Deoband