सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 26, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 26

पृच्छति कामधुक्ष इत्यमूमित्येवेतरः प्रत्याह॑ तामनुमन्त्रयते
या विश्वकर्मेति॑ तिसृषु दुग्धासु वाचं विसृजते बहु दुग्धी-
न्द्राय देवेभ्यो हव्यमाप्यायतां पुनः । वत्सेभ्यो मनुष्येभ्यः
पुनर्दोहाय कल्पतामिति महेन्द्रायेति वा यदि महेन्द्रयाजी
५ भवति॑ विसृष्टवागनन्वारभ्य तूष्णीमुत्तरा दोहयित्वा॑ दोहने
ऽप आनीय संक्षालनमानयति संपृच्यध्वमृतावरीरूर्मिणी-
र्मधुमत्तमा मन्द्रा धनस्य सातय इत्यथैनत्प्रोदगुदास्य शीती-
कृत्वा१ तिरः पवित्रं दध्यातनक्ति सोमेन त्वातनच्म्यिन्द्राय
दधीति महेन्द्रायेति वा यदि महेन्द्रयाजी भवति॑ यावता
१० मूर्च्छयिष्यन्मन्यते तावदानयत्यग्निहोत्रोच्छेषणमभ्यातनक्ति यज्ञस्य
संततिरसि यज्ञस्य त्वा संततिमनुसंतनोमीत्यथैनदुदन्वता
कंसेन वा चमसेन वापिदधात्यदस्तमसि विष्णवे त्वा यज्ञा-
यापिदधाम्यहम् । अङ्गिरस्किने पात्रेण याः पूताः परिशेरत
इति॑ तदुपरीव निदधाति यत्र गुप्तं मन्यते विष्णो हव्यग्ं
१५ रक्षस्वेत्येतस्मिन्काले दर्भैः प्रातर्दोहाय वत्सानपाकरोति
तूष्णीम्॑ ॥ ३ ॥ तृतीयः ॥
अथ प्रातर्हुते ऽग्निहोत्रे हस्तौ संमृशते कर्मणे वां देवेभ्यः
शकेयमिति॑ नक्तं परिस्तीर्णा एवैते ऽग्नयो भवन्ति॑ यद्यु वा
अपरिस्तीर्णा भवन्त्याहवनीयमेवाग्रे पुरस्तात्परिस्तृणात्यथ
२० दक्षिणतो ऽथ पश्चादथोत्तरत॑ एवमेवान्वाहार्यपचनं परि-


१ Thus TJH; शीतिकृत्वा BF, शांतिकृत्वा Be.