बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
DevanagariHindipublished774 पृष्ठ
पृष्ठ 225, कुल 774 में से
संदर्भ में पढ़ेंपृष्ठ 225
२०४ बौधायनश्रौतसूत्रम् । [ ७ । ४ । ]
स यन्ता मयन्तीरिषः स्वाहेत्य॑थ यद्युक्थ्य एतेनैव यजुषा
मध्यमे परिधौ निमार्ष्ट्यथ यद्यतिरात्र एतदेव यजुर्वदन्प्रपद्यते'
यज्ञक्रतूनां व्यावृत्या इति ब्राह्मणम॑थैता होतृचमसीया
दक्षिणस्य हविर्धानस्यान्तरेणेषे उपातिहृत्य नीड उत्सादयंत्त्य॑थो-
दगाग्रं धवनीयꣳ सर्वꣳ एव मैत्रावरुणचमसीयाः पर्यस्यति' ५
तृतीयं वसतीवरीणामवनयति' तृतीयमेकधनानां' पुरो ऽक्षं
वसतीवरीः सादयति' पश्चादक्षमेकधनान्यन्तरेण हविर्धाने
उपविश्यौदुम्बरं पात्रं चतुःस्रक्ति याचति' तस्मिन्बर्हिषी
अन्तर्धाय प्राजापत्यं दधिग्रहं गृह्णात्युपयामगृहीतो ऽसि प्रजा-
पतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दध्नश्च