सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 216, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 216

अग्निष्टोमः प्रातः सवनम्
Digitized by Madhuban Trust
[ ६ । १० । ] बौधायनश्रौतसूत्रम् । १६५
स्रुचि चतुर्गृहीतं गृहीत्वा शालामुखीये वैसर्जणानि¹ जुहोति
त्वꣳ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथꣳ
स्वाहेति ' स्रुवेणांशुं प्रस्कन्दयति जुषाणो अप्तुराज्यस्य वेतु
स्वाहेत्यपरं चतुर्गृहीतं गृहीत्वा संप्रैषमाहाग्नीषोमाभ्यां प्रणीय-
५ मानाभ्यामनुब्रूहीति ' चिरूक्तायामुद्यच्छन्ते² होतृवर्गं यन्त्यथ
वै भवति प्राञ्चमग्निं प्रहरन्त्युतपत्नीमानयन्त्यन्वनाꣳसि प्रवर्तय-
न्तीति³ यदस्यात्र शस्तं भवति पूर्वं तेनाग्निमन्ववस्यन्त्यथाग्नि-
प्रथमाः प्रतिपद्यन्ते ऽन्वग्राजा चाज्यस्थाली चान्वग्ग्रावाणो⁴ वायव्यानि '
पूर्वया द्वारोपनिष्क्रामन्त्ययं नो अग्निरुशन्नो अग्निर्वरिवः कृणोत्वयं मृधः पुर
१० एतु प्रभिन्दन् । अयं शत्रूञ्जयतु जर्हृषाणो ऽयं वाजं जयतु
वाजसातावित्युत्तरेण सदः परीत्याग्नीध्रागारे ऽग्निं निधाय
नयवत्याग्नीध्रे जुहोत्यग्ने नय सुपथा राये अस्मान्विश्वानि
देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते
नमउक्तिं विधेम स्वाहेत्य'थैवैतद्ग्रावोवायव्यꣵ⁵ समुपसाद्योपाति-
१५ यन्ति राज्ञा चाज्यस्थाल्याहवनीये स्रुवाहुतिं जुहोत्युरु विष्णो
१ ॰सर्जनं BTJ ; but comp. TS. VI. 3. 2.
२ ॰नूक्तायामु॰ BF.
३ इति om BTJ ; ॰प्रवर्तयन्त्यथ यदस्या॰ T.
४ Thus F; the other MSS. ग्रावो ।
५ Thus BJHP ; ग्रावोवायव्युत्सु॰ T ; धारणीवायव्यां F ; ग्रावोवायव्यानि Keś.
The remarkable ग्रावोवायव्यम् occurs several times in the Karmānta
sūtra. The Pronoun एतत् seems also to point to a neuter ; but comp.
Bh. and Keś : एतदिति द्रोणकलशोपसंख्यानम् ।
CC-0. Public Domain. Vipin Kumar Collection, Deoband