बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 207, कुल 774 में से
संदर्भ में पढ़ें१८६ | बौधायनश्रौतसूत्रम् । | [ ६ । २५ । ]
हविर्धानस्योत्तरतो मेथीं निहन्त्यथैनाᳵ स्यन्द्या सूपनिबद्धा-
मूपनिबध्नात्येतेनैव मन्त्रेणाथाध्वर्युर्दक्षिणस्य¹ हविर्धानस्य चुचु-
कान्मात्रमरिन्ं मौत्वा लोके² न्यस्य गर्तं खानयत्यथ दक्षिणा-
धुरान्तान्मात्रं बाहुं मौत्वा लोके¹ न्यस्य गर्तं खानयति ।
तावुभावुत्तरेणान्यं गर्तं खानयत्येवमेव प्रतिप्रस्थातोत्तरत- ५
स्त्रौन्गर्तान्खानयत्येवमपरतस्तेषु प्राचीनकर्णा स्थूणा उच्छ्रयन्ति ।
तास्तदक्षौ वᳵशौ प्रोहन्त्य॑ध्यस्यन्ति पुरस्ताद्रराट्यै विष्णो ररा-
तमसीति । विष्णोः पृष्ठमसीति मध्यमं छदिरधिनिदधाति ।
विष्णो स्नप्त्रे³ स्थ इति ये अभितो भवतो । दक्षिणतश्चोत्तर-
तश्च परिश्रयन्ति । प्राचौ च प्रतीचौ च द्वारौ कुर्वन्त्यथ १०
दक्षिणे दार्वाहौ कुशहस्तमुपनिगृह्य दर्भणं प्रवयति दर्भेण
स्यन्द्यां विष्णोः स्यूरसीति । विष्णोध्रुवमसीति ग्रन्थिं करोति⁴ ।
तं तदानीमेव विस्रस्याहाकुर्वन्तो ग्रन्थीनस्तशैलैर्निस्तिष्ठतेत्येव-
मेवोत्तरं दार्वाहमेवमपरे५ दार्वाह्न निस्तिष्ठत्यथैनदभिमृशति⁶
वैष्णवमसि विष्णवे त्वेत्यथाध्वर्युः प्रदक्षिणमावृत्य प्रत्यङ्ङाद्रुत्य १५
१ ॰ध्वर्युर् om. JHF.
२ Thus all.
३ Thus BHF, Keś. (pr. m.); स्यप्त्रे T, Prayogamālā; the
visarga of विष्णोः is omitted by all the MSS. exc. H.
४ ग्रंथौकरोति B.
५ ॰परे BTHJP; ॰परो F.
६ Thus (•ष्ठत्य• or •ष्ठंत्य•) all, except B, which has निस्तिष्ठतो
(comp. Keś. : कुर्वतः) — ॰थैनमद• HF; ॰थैनम० BTJP (Bh., Keś. :
॰थैतद्धविर्धानमभिमृशति ।).
CC-0. Public Domain. Vipin Kumar Collection, Deoband