बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 189, कुल 774 में से
संदर्भ में पढ़ेंत्य॑थ चतुर एवाज्यस्य गृह्णान आह सोमायेत्युपाꣳश्वनुब्रूही-
त्युच्चैरैत्याक्रम्याश्राव्याह सोममित्युपाꣳशु यजेत्युच्चैर्व्वषट्कृते
ऽपरार्धं जुहोत्यंथ चतुर एवाज्यस्य गृह्णान आह सवित्र
इत्युपाꣳश्वनुब्रूहीत्युच्चैरैत्याक्रम्याश्राव्याह सवितारमित्युपाꣳशु
यजेत्युच्चैर्व्वषट्कृत उत्तरार्धं जुहोत्य॑थोपस्तीर्य पूर्वार्धाच्चरो- ५
रवद्यन्नाहादित्या इत्युपाꣳश्वनुब्रूहीत्युच्चैः' पूर्वार्धादवदाया-
परार्धादवद्यत्यभिघारयति प्रत्यनक्त्यैत्याक्रम्याश्राव्याहादितिम-
द्युपाꣳशु यजेत्युच्चैर्व्वषट्कृते मध्ये जुहोत्य॑थ वै भवत्यदितिमिक्ष्वा
मारुतीमृचमन्वाह मरुतो यद्ध वो दिव इत्य॑थोपस्तीर्योत्तरा-
र्धाच्चरोरवद्यन्नाहाग्नये स्विष्टकृते ऽनुब्रूहीत्य॑थ वै भवत्यष्टावत्तः १०
स्विष्टकृद्वादशावत्तेडा' द्वि॑रभिघारयति न प्रत्यनक्त्यैतन्नेक्षण-
मधोऽधः स्रुचावाग्नीध्रायोत्प्रयच्छन्नाहातिवालयतादेव मानु-
प्रहार्षीरित्याक्रम्याश्राव्याहाग्निꣳ स्विष्टकृतं यजेति' वषट्कृत
उत्तरार्धपूर्वार्धे ऽतिहाय पूर्वा आहुतीर्जुहोत्यथैतन्नेक्षणमाहवनीये
ऽतिवाह्याद्भिरभ्युक्ष्योत्तरतः सादयत्यथोदङ्ङत्याक्रम्य यथायतनꣳ १५
स्रुचौ सादयित्वा प्राशित्रमवदायेडामवद्यत्युपहूतायामिडाया-
मग्नीध्र आदधाति षडवत्तं' प्राश्नन्ति' मार्जयन्ते' ॥ ११ ॥
अथ परिकर्मिणः सङ्ग्रास्त्यनुच्छिष्टीकुर्वन्त एतं चरुं
व्युद्धृत्य प्राश्नीताथैतां चरुस्थालीꣳ समामकाषामेतन्नेक्षणमेतं
वेदमेतद्बर्हिस्तुष्ट्रय प्रायणीयाय निधत्तादिति' ग्रंथ्वन्तः¹ प्राय- २०
१ Thus B; गध्वन्तः T (Grantha!); ग्रंयुवंतः J; शंचुतः H; संद्युयता (प्रायणीया) F.