सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 184, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 184

[अग्निष्टोमः प्रातः सवनम्]
[Digitized by Madhuban Trust]
[ ६ । ६ । ७ । ] बौधायनश्रौतसूत्रम् । १६३

आसजत्ये'थोदितेषु नक्ष'त्रेषु यजमानः कृष्णाजिनमारुह्य पूर्वया
द्वारोपनिष्क्रम्याग्रेण शालां तिष्ठन्भूर्भुवः सुवर्ऋतं कृणुत व्रतं
कृणुतेति त्रिर्वाचं विसृजते ' ऽथातिथीनामुपस्थामेति ' चन-
४ मितवतीं विचक्षणवतीं वाचं वदति ' स यद्यु हामेध्यमुपाधि-
गच्छति तज्जपत्यबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाᳵ
श्रेष्ठो दीक्षे मा मा हासीरित्यथ यद्येनमभिवर्षत्युन्दतीर्बलं
धत्तौजोधत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्टेत्येवं१
तत्र जपति ' तस्यैते यजुषी परिस्रवे आ सँस्थाया भवतौ '
ऽथास्मै निपत:२ काले यजमानायतने कृष्णाजिनं प्राचीनग्रीव-
१० मुत्तरलोमोपस्तृणाति३ ' स यदि वज्रतमुपस्तीर्णं भवति
कृष्णाजिनादेवानन्तर्हितः संविशत्य'थ संवेशनयजुर्जपति ॥ ६ ॥
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि । गोपाय
नः स्वस्तये प्रबुधे नः पुनर्देद इति ' दक्षिणतः शय एतद्वै
यजमानस्यायतनꣳ स्व एवायतने शये ऽग्निमभ्यावृत्य शये देवता
१५ एव यज्ञमभ्यावृत्य शय इति ब्राह्मणमयैषा पत्नी जघनेन
गार्हपत्यꣳ संविशति तूष्णीमथाध्वर्युर्मध्यरात्र आद्रुत्य प्रबुद्धं-
यजुर्वाचयति त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं
यज्ञेष्वीड्य इत्येथाप आचामति दैवीं धियं मनामहे
सुमृडीकामभिष्टये । वर्चोधां यज्ञवाहसꣳ सुपारा नो असद्वश


पादटिप्पण्यः (Footnotes):
१ एव BTH.
२ नियतः BH ; निपत: T Keś. ; निवपतः F ; नितः J ; निपवतः P pr. m. ;
नियषतः sec. m.
३ F ins. यद्यपरितीर्णां भवति comp. Keś. यद्यपरितीर्णां भवति ।