बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 180, कुल 774 में से
संदर्भ में पढ़ेंअग्निष्टोमः प्रातः सवनम्
Digitized by Madhuban Trust
[ ६ । ३, ४ । ] बौधायनश्रौतसूत्रम् । १५६
तूष्णीं ' तूष्णीग्ं संप्रधाव्य रजः प्रक्षावयति तूष्णीमद्भिरुदेति¹ '
तूष्णीं ' वसनस्यान्तेन प्रतिच्छाद्याप आचामति ' तूष्णीं²
प्रदक्षिणमहतं वासः परिधत्ते ' तूष्णीमभ्यङ्क्ते ' तूष्णीमाङ्क्ते '
ऽथैनामपरिमितैर्दर्भपुञ्जीलैः पवयति तूष्णीं ' तूष्णीमेवैताने-
५ मानीयापरया द्वारा शालां प्रपाद्य प्राचीमुदानयन्वाचयति प्रेतु
ब्रह्मणस्पत्नी वेदिं वर्णेन मोदतु । अथाहमनुकामिनी स्वे लोके
विश्रा दूहेत्यथ जघनेन गार्हपत्यमुपसीदति सुप्रजसस्त्वा वयग्ं
सुपत्नीरूपसेदिम । अग्ने सपत्नदम्भनमदब्धासो अदाभ्यमित्यथ
पृष्ठ्याग्ं स्तीर्त्वापः प्रणीयाग्नावैष्णवमेकादशकपालं दीक्षणीया-
१० मिष्टिं निर्वपति ' तस्यै दशतयमुत्सीदति न यजमानं व्रतमुप-
नयति न पत्नीग्ं संनह्यति न यजमानभागं करोति न ब्रह्म-
भागं न बर्हिषदं पुरोडाशं करोति नान्वाहार्यं पचति³ न
फलीकरणहोमेन चरति न संविष्टयजुर्जुहोति न पूर्णपात्रे
यजमानं वाचयति न विष्णुक्रमान्क्रमते ' ऽथाध्वर्युः प्रदक्षिण-
१५ मावृत्य प्रत्यङ्ङादृत्य पत्नीः संयाज्य प्राङेत्य ध्रुवामाप्याय्याज्य-
स्थाल्यां प्रत्यवनीयाज्यस्थाळ्याः स्रुवेणोपघातं दीक्षाहुती-
र्जुहोति ॥ ३ ॥
आकृत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा
दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहेत्यथ
१ अद्भिर् (Instr.) all, instead of the Abl., that was to be expect-
ed; H omits the word.
२ तूष्णीं twice BF.
३ Thus HTJF ; पाचयति B.
CC-0. Public Domain. Vipin Kumar Collection, Deoband