बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 173, कुल 774 में से
संदर्भ में पढ़ें१५२ बौधायनश्रौतसूत्रम् । [ ५ । १६, १७ । ]
संचरे पशूनां न्यस्यति ' यद्यु वै न देष्यात्खवटे¹ न्यस्यत्यथैतेषां
त्रैयम्बकाणामेकैकं व्युत्प्रयच्छति द्वौ यजमानायाथैतमग्निं त्रिः
प्रदक्षिणं परियन्ति² दक्षिणानूरूनुपपाघ्नानास्त्र्यम्बकं³ यजामहे
सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृ-
तादिति ' सकृत्परीत्योत्तरतस्तिष्ठन्त्युत्खिदन्ति⁴ ' भगाय वेति ५
लिप्सन्त ' एवमेव द्वितीयं परियन्त्येवं तृतीयमथैषा पतिकामा⁵
त्रिःप्रसलैः पर्येति सव्यमूरुमुपाघ्नाना⁶ ' त्र्यम्बकं यजामहे सुगन्धिं
पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेरिति '
सकृत्परीत्योत्तरतस्तिष्ठत्युत्खिदति⁴ ' भगाय वेति लिप्सत '
एवमेव द्वितीयं पर्येत्येवं तृतीयमथैनान्यजमानस्याञ्जलावाव- १०
पति ॥ १६ ॥
' प्रजया त्वा संसृजामि मासरेण सुरामिवेति ' तान्यज-
मानः पत्न्यञ्जलावावपति ' प्रजया त्वा पशुभिः संसृजामि
मासरेण सुरामिवेति ' तान्यसौ दुहित्रे भगकामायै भगेन
१ Thus Bh. ; षाख्यवटे T ; षाखयटे B ; the other MSS. षाखवटे, comp. X. 48.
२ Thus only Be ; the other MSS. write पर्यंति ।
३ Thus BH ; उपघ्नाना० J Be ; उपघ्नानां F ; उपनिघ्नानास् T ; अपघ्नानाः Keś.
४ Thus BH ; उत्किरंति (as TBr. I. 6. 10. 5) the other MSS., but comp. Dvaidhasūtra : त्रैयम्बकाणामुत्खेदन इति ।
५ Instead of अथैषा पतिकामा BF have अथ दुहिता भगकामा ।
६ Thus BH ; उपघ्नाना Be JF Keś.