बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 141, कुल 774 में से
संदर्भ में पढ़ें१२० बौधायनश्रौतसूत्रम् । [ ४ । ७ । ]
त्याक्रम्याश्राव्याह स्वाहाकृतेभ्यः प्रेष्येति॑ । वषट्कृते जुहोत्य॑-
थोदङ्ङत्याक्रम्य सꣳस्रावेण पृषदाज्यमभिघार्य वपामभिघार-
यत्य॑थोपस्तौर्य¹ द्विः स्रुवेण वपाꣳ समवद्यत्यथाहैन्द्राग्निभ्यां
छागस्य वपाया मेदसो ऽवदीयमानस्या॑नुब्रूहीति । द्विरभि-
घारयत्य॑त्याक्रम्याश्राव्याहेन्द्राग्निभ्यां छागस्य वपां मेदः प्रस्थितं ५
प्रेष्येत्य॑थ पुरस्तात्स्वाहाकृतिꣳ स्रुवाहुतिं जुहोति स्वाहा
देवेभ्य इति॑ । वषट्कृते वपां जुहोति जातवेदो वपया गच्छ
देवान्त्वꣳ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व
स्वाहाकृतꣳ हविरदन्तु देवाः स्वाहेत्य॑थोपरिष्टात्स्वाहाकृतिꣳ
स्रुवाहुतिं जुहोति देवेभ्यः स्वाहेत्य॑त्र वपाश्रपणी अनुप्रहरति १०
प्राचीं विशाखां प्रतीचीमविशाखाꣳ स्वाहोर्ध्वनभसं मारुतं
गच्छतमित्य॑थैने सꣳस्रावेणाभिजुहोत्य॑थोदङ्ङत्याक्रम्य यथाय-
तनꣳ स्रुचौ सादयित्वा समुत्क्रम्य चात्वाले मार्जयन्ते॑ ।
ह्वयन्ति पत्नीꣳ ह्वयन्ति होतारꣳ ह्वयन्ति ब्रह्माणꣳ ह्वयन्ति
प्रतिप्रस्थातारꣳ ह्वयन्ति प्रशास्तारꣳ ह्वयत्याग्नीध्रमेहि यज- १५
मानेतैदमापः² प्रवहतावद्यं च मलं च यत् । यच्चाभिदुद्रो-
हानृतं यच्च शेपे अभूरुणम् ॥ निर्मा मुञ्चामि शपथान्निर्मा
वरुणादुत । निर्मा यमस्य पड्बीशात्सर्वस्माद्