बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)
Baudhayana Shrautasutra of Taittiriya Samhita with Commentary
आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा
पृष्ठ 129, कुल 774 में से
संदर्भ में पढ़ेंतिना तिर्यञ्चं प्रहरति स्वधिते मैनँ हिँसीरिति ' यः प्रथमः
शकलः परापतति तं प्रज्ञातं निदधाति ' तमपरिभिन्दन्नक्षसङ्गं
वृश्चति ' प्राञ्चं वोदञ्चं वा प्रयान्तमनुमन्त्रयते दिवमग्रेण मा
लेखोरन्तरिक्षं मध्येन मा हिँसीः पृथिव्या संभवेत्याव्रश्चने
५ हिरण्यं निधाय संपरिस्तीर्याभिर्जुहोति वनस्पते शतवल्शो
विरोह स्वाहेति ' सहस्रवल्शा वि वयँ रुहेमेत्यात्मानं प्रत्य-
भिमृशते ' ऽन्वञ्च् शाखाः प्रस्सूदयति यं लायँ स्वधितिस्तेति-
जानः प्रणिनाय महते सौभगायेति ' पञ्चारत्निं तस्मै वृश्चेदि-
त्यैष ब्राह्मणवतामवमस्तं परिष्वङ्गपरं१ प्रादेशावमं चषालस्य
१० काले परिवासयत्यच्छिन्नो रायः सुवीर इति ' यत्परं भवति
तस्य चतुरङ्गुलं चषालाय प्रच्छेदयति ' तं चतुरश्रिं वाष्टाश्रिं
वा कृत्वा वा हरत्या२ वा हारयत्योच्छ निस्तिष्ठत्यवतक्षणानामेव
खरं कुरुते ' ऽथास्यैषा पूर्वद्युरेव पाशुबन्धिकी वेदिर्विमिता
भवति दशपदा पश्चात्तिरश्ची द्वादशपदा प्राच्यष्टापदा पुरस्ता-
१५ त्तिरश्ची ' तां परिस्तीर्य स्तम्बयजुर्हरति ' ॥ १ ॥
इदमेव प्रसिद्धं पौरोडाशिकं ' त्रिर्यजुषा तूष्णीं चतुर्थं '
पूर्वं परिग्राहं परिगृह्णाति ' करणं जपत्युत्तूद्योत्तोदादित्यग्नीध्र-
स्त्रिर्हरति ' यदाग्नीध्रस्त्रिर्हरत्यथ याचति स्फ्यमुदपात्रं बर्हिः
१ Thus H Be T; परिष्वंगमपर• B; परिष्वंगंपर• F.
२ Thus Be H and the Aptoryāma-Sūtra; छलायादशयत्यवाधारयत्यूच्छ
T; छलायादयत्यावाधारयत्योच्छ B; छलायहरत्यावाधारयेल्लोढ F.