सामग्री पर जाएँ
सर्वकोश
बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

बौधायन श्रौतसूत्रम् (कृष्ण यजुर्वेद तैत्तिरीय शाखा - सम्पूर्ण प्रश्न एवं श्रौत-याग कल्प सटीक)

Baudhayana Shrautasutra of Taittiriya Samhita with Commentary

आचार्य बौधायन (सम्पादक: डब्ल्यू. कालन्द) द्वारा

DevanagariHindipublished774 पृष्ठ

पृष्ठ 110, कुल 774 में से

संदर्भ में पढ़ें
पृष्ठ 110

दशाध्यायिकः याजमानम्
Digitized by Madhuban Trust
[ ३ । १७, १८ । ] बौधायनश्रौतसूत्रम् । ८६
यजत इति ब्राह्मणमथ वै भवति यं कामयेत यजमानं भ्रातृ-
व्यमस्य यज्ञस्याशीर्गच्छेदिति तस्यैता व्याहृतीः पुरोनुवाक्यायां
दध्याद्भातृव्यदेवत्या वै पुरोनुवाक्या' भ्रातृव्यमेवास्य यज्ञस्याशी-
र्गच्छतीति ब्राह्मणमथ वै भवति यान्कामयेत यजमानान्त्स-
५ मावत्येनान्यज्ञस्याशीर्गच्छेदिति तेषामेता व्याहृतीः पुरोनु-
वाक्याया अर्धर्च एकां दध्याद्याज्यायै पुरस्तादेकां याज्याया
अर्धर्च एकां' तथैनानसमावती यज्ञस्याशीर्गच्छतीति ब्राह्मणमथ
वै भवति यथा वै पर्जन्यः सुवृष्टं वर्षत्येवं यज्ञो यजमानाय
वर्षति' स्थल्योदकं परिगृह्णन्त्योषधीष्वेवं यज्ञं यजमानः परि-
१० गृह्णातीति ब्राह्मणं' व्याहृतीभिर्ब्राह्मणस्य प्रतिपद्यते हिङ्कारेण
राजन्यस्यर्चा वैश्यस्य सर्वमेवैतत्त्रयं कुर्यादित्येतदपरमिध्माभ्या-
धीयमानमनुमन्त्रयते ॥ १७ ॥
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते । अग्ने
देवेद्ध मन्विद्ध मन्द्रजिह्वेति' प्रवरं प्रब्रीयमाणमनुमन्त्रयते१
१५ ऽमर्त्यस्य ते होतर्मूर्धन्नाजिघर्मि रायस्पोषाय सुप्रजास्त्वाय
सुवीर्यायेति' स्रुवेणाघारमाघार्यमाणमनुमन्त्रयते२ मनो ऽसि
प्राजापत्यं मनसा मा भूतेनाविशेति' स्रुचमाघारमाघार्यमाण-
मनुमन्त्रयते वागस्यैन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाविशेति'
प्रयाजानामिष्टमिष्टमनुमन्त्रयते३ वसन्तमृतूनां प्रीणामि स मा
१ Thus Be; प्रब्रोयमाणम० BJ, Bhav.; प्रष्टयमाणं F; प्रष्टणोयमाणं T; प्रबोयमाणं H.
२ Thus all MSS.; स्रोयमाघारम० Mādh.
३ दृष्टं twice Be HT, once the other MSS. and Mādh.
12
CC-0. Public Domain. Vipin Kumar Collection, Deoband