बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)
Baudhayana Dharmasutra Hindi
महर्षि बौधायन द्वारा
स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)
पृष्ठ 291, कुल 486 में से
संदर्भ में पढ़ेंअष्टमः खण्डः ] द्वितीयप्रश्ने पञ्चमोऽध्यायः २३९
तेनैव सिद्धे गतग्रहणं जलेनैव सर्वाङ्गीणाच्छादनार्थम्। अघमर्षणं नाम "ऋतं
च सत्यं च' इति तृचम्। तेन त्रिः पठितेन एकः प्राणायामो भवति। एवं
त्रयः प्राणायामाः। वासःपीडनमिह पितॄणां तृप्त्यर्थम्। उपवातं शोषितम्।
अक्लिष्टमच्छिद्रम्। बहुवचनादन्तर्वाससो बहिर्वासस उत्तरीयस्य च ग्रहणम्।
आचमनं मध्याह्नसन्ध्याग्राह्कम्। आचमनानन्तरं च सावित्र्याऽभिमन्त्रिता-
नामपामदित्याभिमुखं प्रक्षेपणं सदाचारसिद्धं द्रष्टव्यम्। अपरिमितं उक्त-
संख्यातोऽधिकम् ॥ १२ ॥
अथाऽऽदित्यमुपतिष्ठते$^२$—"उद्वयं तमसस्परि। ऽउदु त्यम्।
चित्रम्। तच्चक्षुर्देवहितम्। य उदगा" दिति ॥ १३ ॥
अनु०—इसके अनन्तर "उद्वयं तमसस्परि। उदुत्यम्। चित्रम्। तच्चक्षुर्देव-
हितम्। य उदगात्" मन्त्रों से सूर्य की प्रार्थना करे ॥ १३ ॥
उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम्। देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
उदुत्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम् ॥
चित्रं देवानामुदगादनीकं चक्षुमित्रस्य वरुणस्याग्नेः।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्।
पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम
शरदश्शतं शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च
सूर्यं दृशे ॥ य उदगान्महतोऽर्णवाद्दिभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्ष-
स्सूर्यो विपश्चिन्मनसा पुनातु ॥
ऋग्वेतत् ॥ १३ ॥
१. ऋतं च सत्यं चाऽभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततस्समुद्रो
अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहोरात्राणि विदधद्विश्वस्य मिषतो
वशी ॥ सूर्य्याचन्द्रमसो धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चाऽन्तरिक्षमथो स्वः ॥
२. उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ चित्रं देवानामुद-
गादनीकं चक्षुमित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा
जगतस्तस्थुषश्च ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतं जीवेम
शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतं शृणवाम शरदश्शतं
प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक् च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवा-
द्विभ्राजमानस्सरिरस्य मध्यात् समावृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥