सामग्री पर जाएँ
सर्वकोश
बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

बौधायन धर्मसूत्र (विवरण टीका व हिन्दी अनुवाद)

Baudhayana Dharmasutra Hindi

महर्षि बौधायन द्वारा

स्रोत: Baudhayana Dharmasutram with Vivarana & Hindi Translation by Dr. Umesh Chandra Pandey (उद्गम)

DevanagariHindipublished486 पृष्ठ

पृष्ठ 167, कुल 486 में से

संदर्भ में पढ़ें
पृष्ठ 167

पञ्चदशः खण्डः ] प्रथमप्रश्ने सप्तमोऽध्यायः ११५

रेषु खननं १‘तं स खनति वा खानयति वा’ इत्यादि । निरसनं २‘तृणं वा निर-
स्यति’ इत्यादि । तत्र पुनर्वचनम्३निरूपितदशहोत्रा (?) यौगपद्यनिवृत्त्यर्थम् ।
पित्र्यं ४ ‘स्वधा पितृभ्य ऊर्ध्वम्’ इत्यादि । राक्षसं ५‘रक्षसां भागोऽसि’ इत्या-
दि । नैर्ऋतं६ ‘नैर्ऋतेन पूर्वेण प्रचरति’ इत्यादि । रौद्रं ७‘मन्थिसंस्रावहो-
मादि । अभिचरणीयानि८ ‘यं यजमानो द्वेष्टि’ इत्येवं चोदितानि ॥ ६ ॥


खङ्गाकारः खादिरवृक्षनिर्मितस्साधनविशेषः स्फ्य इत्युच्यते ) हस्तेनाऽऽदाय वेदि-
स्थाने उदीचीनाग्रं कुशं निधाय तदुपरि स्फ्येन प्रहरणमनेन वाक्येन विधीयते । तद-
त्र भेदनपदेनाऽभिप्रेतमन्यच्चैतादृशम् । ( बो. श. १.११ )

१. अग्नीषोमीयादिषु पशुयागेषु पशुबन्धनार्थमपेक्षितस्य यूपस्य निखननं कर्त-
व्यम् । तदर्थमभिकांक्षितस्य गर्तस्य खननमनेन विधीयते । तमवटमध्वर्युः स्वयं वा
खनेदग्नीध्रेणर्त्विजा वा खानयेत् इति सूत्रार्थः ॥ ( बो.श्रौ. ४.२. )

२. दर्शपूर्णमासयोः पुरोडाशार्थं शकटे आहृतानां व्रीहीणां यवानां वाऽऽवरजम-
पादाय तत्रस्थस्य तृणादेर्धान्यशूकस्य वाऽपादानमनेन विधीयते । किंशारु धान्यशूकम् ।
( बो.श्रौ. १.४. ). ३. अपिरोपित इति पाठो ग. पु.

४. दर्शपूर्णमासयोरेव वेदेरिष्माबर्हिषां च प्रोक्षणं विधाय प्रोक्षणशिष्टानाम्पां
वेद्यामेव निनयनं विधीयते—‘‘अतिशिष्टाः प्रोक्षणीर्निनयति दक्षिणायै श्रोणेरोत्तरो-
त्तरायै श्रोणेः स्वधा पितृभ्य ऊर्ध्वं बर्हिषद्भ्य ऊर्जा पृथिवीं गच्छतेति’’ । निनयनमिदं
पित्र्यम् ॥ ( बो. श्रौ. १.२२. )

५. दर्शपूर्णमासयोरेव पुरोडाशार्थमवहतानां व्रीहीणां तुषान् तण्डुलेभ्यः पृथक्कृत्य
तान् निरस्यति । तदेतत् विहितम्–इमां दिशं निरस्यति रक्षसां भागोऽसीति । तदिदं
राक्षसम् । ( बो. श्रौ. १.६. ) ६. निर्ऋतियागो राजसूयादौ प्रसिद्धः ।

७. सोमयागे मन्थिग्रहो नाम कश्चन ग्रहः । तस्य प्रधानहोमानन्तरं आहव-
नीयस्योत्तरार्धे एकदेशस्रावणरूपो होमो निहितः–अथ प्रतिप्रस्थातोत्तरार्ध आहवनी-
यस्य मन्थिनस्संस्रावं जुहोत्ये‘‘ष ते रुद्र भागो यं निरयाचथास्तं जुषस्व विदेगौ-
पत्यँ रायस्पोषँ सुवीर्यं संवत्सरीणां स्वस्तिँ स्वाहेति’’स रुद्रदेवताकत्वाद्राैद्रः ।
( बो. ७.१४ )

८. सोमयागे सोमाधारभूत ( हविर्धान ; शकटस्थापनार्थं दक्षिणहविर्धानमण्डप-
मध्ये चत्वारो गर्ताः क्रियन्ते । तत उद्धृतान पांसून् जनसञ्चाररहिते देशे क्षिपेत् ।
तत्काले यो यजमानस्य द्विषन् त मनसा ध्यायेदिति विहितम्—‘‘अप्रेतान् पांसूनक्षरे
परावपत्यत्र यं यजमानो द्वेष्टि तं मनसा ध्यायति’’ इति ॥ ( बो. श्रौ. ६. २८. )
तदेतदभिचरणीयम् ।