आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
११.] आयुर्वेदप्रकाशः । ११९
अथ रजतमारणम् । तत्रास्य विशेषशोधनम् । उक्तं च—
तैलतक्रादिशुद्धस्य रजतस्य विशेषतः ।
शोधनं मुनिभिः प्रोक्तं तद्यथावन्निगद्यते ॥ ८८ ॥
पत्रीकृतं तु रजतं प्रतप्तं जातवेदसि ।
निर्वापितमगस्त्यस्य रसे वारत्रयं शुचि ॥ ८९ ॥
तारं तप्तं त्रिधा क्षिप्तं तैले ज्योतिष्मतीभवे ।
खर्परे भस्मचूर्णाभ्यां परितः पालिकां चरेत् ॥ ९० ॥
तत्र रूप्यं विनिक्षिप्य समसीससमन्वितम् ।
जातसीसक्षयं यावद्धमेत्तावत्पुनः पुनः ।
इत्थं संशोधितं रूप्यं मृतं योज्यं रसादिषु ॥ ९१ ॥
अथ मारणम्—
विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ।
तालं गन्धं समं शुद्धं तन्मर्द्यं निम्बुकद्रवैः ॥ ९२ ॥
गोलकीकृत्य संशुद्धं मूषायां स्वर्णवद्दृढम् ।
द्वित्रैः पुटैर्भवेद्भस्म योज्यमेतद्रसादिषु ॥ ९३ ॥
इति सरसं रूप्यभस्म । मतान्तरम्—
हिङ्गुलेन च माक्षिकेण वलिना तुल्येन जम्भाम्भसा
लिप्तं रौप्यदलं पुटेन पटुना स्याद्भस्म मूषास्थितम् ॥ ९४ ॥
पटुना पुटेन गजपुटेन । मतान्तरम्—
तारपत्रं तुर्यभागं भागैकं शुद्धतालकम् ।
एतज्जम्बीरजद्रावैः कल्कीकृत्याखिलं भिषक् ॥ ९५ ॥
तेन तारस्य पत्राणि लेपयेच्छोषयेत्ततः ।
शरावसंपुटे तेषामूर्ध्वाधो गन्धकं क्षिपेत् ॥ ९६ ॥
तारतुल्यं ततस्तानि रुद्धा गजपुटे पचेत् ।
त्रिंशदुत्पलकैर्वाऽपि विंशद्भिस्तारपञ्चता ॥ ९७ ॥
१२० आयुर्वेदीयग्रन्थमाला । [अध्यायः
भागैकं तालकं मर्द्यं याममम्लेन केनचित् ।
तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ ९८ ॥
धृत्वा मूषापुटे रुद्ध्वा पुटेत्रिंशद्वनोत्पलैः ।
समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुटे पचेत् ।
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ ९९ ॥
इति रूप्यभस्म ॥
स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेपयेत् ।
तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् ।
एवं चतुर्दशपुटैस्तारं भस्म प्रजायते ॥ १०० ॥
इत्यपि रूप्यभस्म । इति रसं विना मध्यमं रूप्यभस्म ।
मतान्तरम्—
सूतगन्धकयोस्तारतुल्ययोः कजलीं भिषक् ।
द्रवीकृत्य कुमार्यद्भिस्तारपत्राणि लेपयेत् ॥ १०१ ॥
शरावसंपुटे रुद्ध्वा त्रिंशदुत्पलकैः पचेत् ।
द्विवारं रजतस्याशु भस्म स्यात् प्रायशः सितम् ॥ १०२ ॥
इत्यपि रससंयुक्तं रूप्यभस्म । अथ द्रुतिः—
शतधा नरमूत्रेण भावयेद्देवदालिकाम् ।
तच्चूर्णावापमात्रेण द्रुतिः स्यात्स्वर्णतारयोः ॥ १०३ ॥
अथ ताम्रस्योत्पत्तिनामलक्षणगुणशोधन-
मारणानि —
शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले ।
तस्मात्ताम्रं समुत्पन्नमिदमाहुः पुराविदः ॥ १०४ ॥
ताम्रं तु द्विविधं प्रोक्तं नेपालं म्लेच्छनामकम् ।
अतिशोणं मृदुः, कृष्णं कठिनं, क्रमशः स्मृतम् ॥ १०५ ॥
११. ] आयुर्वेदप्रकाशः । १२१
नामानि—
ताम्रमौदुम्बरं शुल्वमुदुम्बरमिति स्मृतम् ।
रविप्रियं म्लेच्छमुखं सूर्यपर्यायनामकम् ॥ १०६ ॥
लक्षणम्—
जपाकुसुमसंकाशं स्निग्धं मृदु घनक्षमम् ।
लोहनागोज्झितं ताम्रं नेपालं मृत्यवे शुभम् ॥ १०७ ॥
कृष्णं रूक्षमतिस्तब्धं श्वेतं चापि घनासहम् ।
लोहनागयुतं शुल्वं म्लेच्छं दुष्टं मृतौ त्यजेत् ॥ १०८ ॥
अन्यच्च—
न विषं विषमित्याहुस्ताम्रं तु विषमुच्यते ।
एको दोषो विषे ताम्रे त्वष्टौ दोषाः प्रकीर्तिताः ॥ १०९ ॥
भ्रमो मूर्च्छा विदाहश्च स्वेदक्लेदनवान्तयः ।
अरुचिश्चित्तसंताप एते दोषा विषोपमाः ॥ ११० ॥
तैलतक्रादिशुद्धस्य तद्दोषविनिवृत्तये ।
शुल्वस्य शोधनं प्राज्ञैर्विशेषात्समुदाहृतम् ॥ १११ ॥
यथा—
स्नुह्यर्कक्षीरलवणैस्ताम्रपत्राणि लेपयेत् ।
अग्नौ प्रताप्य निर्गुण्डीरसे संसेचयेत्त्रिशः ।
स्नुह्यर्कक्षीरसेकैर्वा शुल्वशुद्धिः प्रजायते ॥ ११२ ॥
अन्यमतम्—
गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥ ११३ ॥
इति विशेषशुद्धिः । अथ मारणम्—
सूक्ष्माणि ताम्रपत्राणि कृत्वा संस्वेदयेद्बुधः ।
वासरत्रयमम्लेन ततः खल्वे विनिःक्षिपेत् ॥ ११४ ॥
११
१२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् ।
तत उद्धृत्य पत्राणि लेपयेद्विगुणेन च ॥ ११५ ॥
गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् ।
ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ ११६ ॥
तत्कल्केन बहिर्गोलं लेपयेद्व्यङ्गुलोन्मितम् ।
धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ ११७ ॥
वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः ।
दत्त्वा भाण्डमुखे मुद्रां, ततश्चुल्यां विपाचयेत् ॥ ११८ ॥
क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् ।
स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥
यामैकं गोलकं तच्च निक्षिपेत्सूरणोदरे ।
मृदा लेपस्तु कर्तव्यः सर्वतोऽङ्गुलमात्रकः ॥ १२० ॥
पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् ।
वमनं च विरेकं च भ्रमं क्लममथारुचिम् ।
विदाहं स्वेदमूत्क्लेदं न करोति कदाचन ॥ १२१ ॥
चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनगुंदा पत्रशाकम् । इति
ताम्रभस्म । अथान्यः प्रकारः—
ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् ।
मर्दयेद्यामयुग्मं तु यावत्कजलिका भवेत् ॥ १२२ ॥
तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् ।
संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ १२३ ॥
निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् ।
सन्धिरोधं द्वयोः कुर्यादम्बुभस्मविलेपनम् ॥ १२४ ॥
हण्डिकां पडुनाऽऽपूर्य भस्मना वा गलावधि ।
पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् ॥ १२५ ॥
चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ।
११. ] आयुर्वेदप्रकाशः । १२३
अम्लपिष्टं मृतं ताम्रं सूरणस्थं लिपेन्मृदा ।
पचेत्पश्चामृतैर्वाऽपि त्रिधा वान्त्यादिशान्तये ॥ १२६ ॥
अत्र गजपुटो बोध्यः । रसपद्धत्याम्—
जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् ।
पङ्कायमानं पुटयस्व युक्त्या वान्त्यादिकं यावदुपैति शान्तिम्॥
इति रससंयुक्तं ताम्रभस्म । रसपद्धत्याम्—
अर्द्धांशेन रसेन तुल्यबलिना जम्ब्वाम्बुपिष्टेन च
लिप्त्वा ताम्रदलानि संस्तरचितान्यर्कस्य पक्वच्छदैः ।
भाण्डे रन्ध्राणि तिन्तिणीकविटपत्वग्भस्मसंपूरिते
घस्रैकं परिपाचितानि शुचिना तीव्रं म्रियन्ते सकृत्॥१२८॥
संस्तरचयनं तु—अर्धार्कपत्रं हण्डिकायां पक्वं दत्त्वा, तत्र
कज्जलीं तदुपरि ताम्रपत्रं पुनस्तदुपरि कज्जलीं तदुपरि पक्वार्क-
पत्रं, एवं क्रमेणेति भावः । हण्डिकायां पक्वं दत्त्वेत्ययमर्थः—
आदौ रन्ध्रवति भाण्डे अम्लिकात्वग्भस्म चतुरङ्गुलं दृढं प्रसार्य,
तत्र ताम्रसंस्तरं दत्त्वा, तदुपरि पुनर्भस्मचूर्णं कृत्वा, उपरि
शरावमृत्कर्पटानि दत्त्वा, चुल्ल्यामारोप्य प्रहरचतुष्टयपर्यन्त-
मग्निं तीव्रतरं दत्त्वा तानि म्रियन्ते, स्वाङ्गशीतानि ग्राह्याणि ।
शुचिरत्र वह्निः । अथान्यः प्रकारः—
शुल्वपत्राणि सूतेन चतुर्थांशेन लेपयेत् ।
अम्लपिष्टं द्विगुणितमूर्ध्वाधो दापयेद्बलिम् ॥ १२९ ॥
चाङ्गेरीकल्कगर्भस्थं भाण्डे यामं पचेद्दृढम् ।
भस्मीभूतं ताम्रपत्रं सर्वयोगेषु योजयेत् ॥ १३० ॥
अन्यच्च—
जम्बीररससंपिष्टरसगन्धकलेपितम् ।
ताम्रपत्रं शरावस्थं त्रिपुटैर्याति भस्मताम् ॥ १३१ ॥
१ ‘सर्वरोगेषु’ ग. ।
१२४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
अन्यच्च—
गन्धाश्मना वा शिलया रविदुग्धेन लेपितम् ।
जम्भाम्भसा च पुटनैस्ताम्रं भस्मत्वमाप्नुयात् ॥ १३२ ॥
इति रसरहितं ताम्रभस्म मध्यमपक्षीयम् । अथ सोमनाथी
ताम्रभस्म—
शुल्वतुल्येन सूतेन वलिना तत्समेन च ।
तदर्द्धांशेन तालेन शिलया च तदर्द्धया ॥ १३३ ॥
तदर्धं पारदार्धं तालं, तालार्धा मनःशिला ॥
विधाय कज्जलीं श्लक्ष्णां भिन्नकज्जलसंनिभाम् ।
यन्त्राध्यायविनिर्दिष्टगर्भयन्त्रोदरान्तरे ॥ १३४ ॥
कज्जलीं ताम्रपत्राणि पर्यायेण विनिक्षिपेत् ।
प्रपचेद्यामपर्यन्तं स्वाङ्गशीतं समुद्धरेत् ॥ १३५ ॥
अथ गुणाः—
तत्तद्रोगहरानुपानसहितं ताम्रं द्विवल्लोन्मितं
सं
: ११. ] आयुर्वेदप्रकाशः। १२५
दाहः स्वेदोऽरुचिर्मूर्च्छा क्लेदो रेको वमिर्भ्रमः ।
असम्यक्शोधिते दोषास्ताम्रेऽसम्यक्च मारिते ॥ १४० ॥
अथ वङ्गस्य नामलक्षणशोधनमारणानि ।
वङ्गं रङ्गं त्रपु प्रोक्तं तथा पिच्चटमित्यपि ।
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ॥ १४१ ॥
खुरकं श्रेष्ठमुद्दिष्टं मिश्रकं चावरं स्मृतम् ।
खुरकं चन्द्ररूप्याभं खुराकारं च कीर्त्यते ।
एतल्लक्षणभिन्नं तु वङ्गं मिश्रकनामकम् ॥ १४२ ॥
गुणाः—
रङ्गं लघु सरं रूक्षमुष्णं मेहकफकृमीन् ।
निहन्ति पाण्डुकं श्वासं चक्षुष्यं पित्तलं मनाक् ॥ १४३ ॥
सिंहो यथा हस्तिगणं निहन्ति तथैव वङ्गोऽखिलमेहवर्गम् ।
देहस्य सौख्यं प्रवलेन्द्रियत्वं नरस्य पुष्टिं विदधाति नूनम् १४४
अन्यत्रापि—
वङ्गं तीक्ष्णोष्णरूक्षं कफकृमिवमिजिन्मेहमेदोऽनिलघ्नं
कासश्वासक्षयघ्नं प्रशमितहुतभुङ्मान्द्यमाध्मानदारि ।
बल्यं वृष्यं प्रभाकृन्मनसिजजनकं सर्वमेहप्रणाशि
प्रज्ञाकृद्वर्ण्यमुच्चैरलघुरतिरसस्यास्पदं बृंहणं च ॥ १४५ ॥
अन्यच्च—
बल्यं दीपनपाचनं रुचिकरं प्रज्ञाकरं शीतलं
सौन्दर्यैकविवर्धनं हितकरं नीरोगताकारकम् ।
धातुस्थौल्यकरं क्षयिक्षयहरं सर्वप्रमेहापहं
वङ्गं भक्षयतो नरस्य न भवेत्स्वप्नेऽपि शुक्रक्षयः॥१४६॥
अशुद्धममृतं वङ्गं प्रमेहादिगणप्रदम् ।
गुल्महृद्रोगशूलार्शःकासश्वासवमिप्रदम् ॥ १४७ ॥
१ 'पाण्डुं कासं च' ग. ।
१२६ आयुर्वेद Bernard? No: आयुर्वेदीयग्रन्थमाला। [अध्यायः
वङ्गभस्मकरणं-अस्य शोधनं विशेषशोधनं च प्रागुक्तम् ॥
शुद्धं वङ्गं क्षिपेद्धण्ड्यां चुल्लिकायां शनैः शनैः ।
तदधो ज्वालयेदग्निं द्रुते वङ्गे क्षिपेत्पुनः ॥ १४८ ॥
अपामार्गं चतुर्थांशं चूर्णं संचालयेदिदम् ।
स्थूलाग्रया लोहदर्व्या यावत्तद्भस्म जायते ॥ १४९ ॥
अत्र रहस्यम्—
चूर्णप्रक्षेपणं कार्यं स्वल्पं स्वल्पं मुहुर्मुहुः ।
यावद्भस्म भवेद्वङ्गं तावच्चूर्णं समापयेत् ॥ १५० ॥
ततः शरावपिहितं स्थापयेत्तत्र तद्भिषक् ।
रजः सर्वं ततोऽधस्तात्कुर्यादग्निं तु तीव्रकम् ॥ १५१ ॥
यावदङ्गारवर्णं तद्रजः समुपजायते ।
स्वाङ्गशीतं ततो ग्राह्यं मारणाय रजः शुभम् ॥ १५२ ॥
प्रकारान्तरं रसपद्धत्याम्—
वङ्गे घर्षणकाल एव भिषजः पीतायवानीरजो
न्यस्यन्ति क्षणशः शिलाजतु तथा भस्माप्यपामार्गजम् ।
क्षिप्त्वा रङ्गदलान्यरुष्कपिशितैर्भाण्डे तु चिञ्चात्वचो
भूत्या संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्मान्यपि १५३
घर्षणकाले वक्ष्यमाणपलाशदण्डादिना घर्षणे; पीता
हरिद्रा, यवानी यवासा, अनयो रजः; क्षणशः क्षणं क्षणं यावत्
पिष्टीभवति तावद्भिषजो न्यस्यन्ति; ततो भस्मनः शुद्धयर्थं
शिलाजतुं क्षिपन्ति, शिलाजतुरात्र श्वेतो ग्राह्यः सोरकाख्यः;
तथेति अपामार्गजं भस्म घर्षणकाले वा क्षिपन्ति । अत्र भस्मी-
कृत्य तदुपरि शरावं दत्त्वा तीव्रतरं वह्निं कृत्वा यथाऽङ्गारवर्णं
भवति तथा कर्तव्यम् । पश्चात्स्वाङ्गशीतं ग्राह्यम् । मारणार्थं
तद्भस्म भवति । प्रकारान्तरं-क्षिप्त्वेति । संस्तरस्तु भस्म दत्त्वा
तदुपरि पत्रं, एवं क्रमेण । पुटं गजपुटम् ॥
११.] आयुर्वेदप्रकाशः । १२७
प्रकारान्तरं तत्रैव—
यद्वैतस्य दलानि विंशतिगुणे पिण्याकचूर्णेऽतसी-
संभूते शणपट्टवर्तिनि पुनस्तद्वद्यवान्या अपि ।
कीर्णानि क्रमशो निबध्य सुदृढं रुद्ध्वा गजाव्हे पुटे
स्युर्भस्म त्रपुणि स्थिते तु पुटतोऽपकेऽयमेव क्रमः १५४
व्याख्या—अतसीपिण्याकचूर्णयवानीचूर्णयोः समुच्चयः,
शणपट्टवर्तिनीति उभयोर्विशेषणं; क्रमशः पटे उभयोश्चूर्ण
तत्रैकं पत्रं पुनश्चूर्णमित्यादि । अथैवमन्यतमप्रकारेण निष्प-
न्नस्य वङ्गभस्मनः पुनर्मारणेन निरुत्थीकरणमाह—
अथैवं वङ्गजं भस्म शुद्धतालेन मेलयेत् ।
समेन वाऽङ्घ्रिणांशेन ह्यष्टमांशेन वा ततः ॥ १५५ ॥
मर्दयेन्निम्बुकद्रावैरथवा कन्यकाद्रवैः ।
यामैकं वा द्वियामं वा दृढं मर्द्याथ चक्रिकाम् ॥ १५६ ॥
कृत्वा घर्मविशुष्कां तां पिप्पलस्य त्वगन्तरे ।
संस्थाप्य पश्चादेवं तत्सप्तधा विपचेद्भिषक् ॥ १५७ ॥
सर्वोत्तमं वङ्गभस्म निरुत्थं खटिकाप्रभम् ।
सर्वकार्यकरं चैव जायते वैद्यजीवनम् ॥ १५८ ॥
द्वितीयादिपुटे तालं न देयं किन्तु घर्षणैः ।
प्रोक्तद्रव्येण चक्राभं कृत्वा शुष्कं पुटेन्मुहुः ॥ १५९ ॥
पिप्पलस्य त्वगन्तरे स्थापनविधिः—
पिप्पलत्वग्भवं चूर्णं मध्यं स्थाप्यं शरावके ।
चक्रिकां तत्र संस्थाप्य शेषमूर्ध्वं न्यसेद्रजः ॥ १६० ॥
संपिधायाथ संरुध्य मृत्कर्पटविलेपितम् ।
शुष्कं गजपुटे क्षेप्यं रहस्यमिति कीर्तितम् ॥ १६१ ॥
केचिद्वदन्ति पुटनाद्यदा भस्म मृदुर्भवेत् ।
तदाऽन्तिमपुटान्यस्य स्वल्पच्छगणकानि हि ॥ १६२ ॥
१२८ आयुर्वेदीयग्रन्थमाला । [अध्यायः
इति वङ्गरजसो निरुत्थीकरणेन भस्मत्वापादनम् । अथ प्रका-
रान्तरम्—
वङ्गं सतालमर्कस्य पिष्ट्वा दुग्धेन तत्पुटेत् ।
शुष्काश्वत्थभवैर्वल्कैः सप्तधा भस्मतां व्रजेत् ॥ १६३ ॥
अथ मध्यमपक्षेण वङ्गमारणम्—
रजनीरजसा वह्नौ स्थाप्य हण्ड्यां तु पूर्ववत् ।
वङ्गभस्म विधायथ सोरकं तत्र मेलयेत् ॥ १६४ ॥
वङ्गतुर्यांशकं तत्तस्याच्छरावेण पिधापयेत् ।
मन्दमग्निं घटीमेकां दत्त्वाऽथ स्वाङ्गशीतलम् ॥ १६५ ॥
कुन्देन्दुधवलं भस्म वङ्गं ग्राह्यं स्वकार्यकृत् ॥ १६६ ॥
अथान्यः प्रकारः—
वन्योपलोपरिस्थे तु गोणीखण्डे क्षिपेद्रजः ।
तिन्तिणीवल्कलस्याथ तिलांस्तत्र विनिक्षिपेत् ॥ १६७ ॥
अङ्गुलार्धप्रमाणेन तत्र वङ्गदलं न्यसेत् ।
खण्डीकृतं पुनस्तेन क्रमेणैवाऽथ विन्यसेत् ॥ १६८ ॥
तिलतिन्तिणिवल्कं च, गोमयेनाग्निना दहेत् ।
स्वाङ्गशीतं ततो ग्राह्यं युक्त्या वङ्गस्य भस्म तत् ।
श्वेतं तु लवणाभासं सुसूक्ष्मं सर्वकार्यकृत् ॥ १६९ ॥
अत्र पक्षद्वये तालदानं प्राज्ञैरपेक्षितम् । इत्यपि वङ्गभस्म ।
मतान्तरम्—
मृत्पात्रे द्राविते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।
क्षिप्त्वा वङ्गचतुर्थांशमयोदर्व्या प्रचालयेत् ॥ १७० ॥
ततो द्वियाममात्रेण वङ्गभस्म प्रजायते ।
अथ भस्मसमं तालं क्षिप्त्वाऽम्लेन विमर्दयेत् ॥ १७१ ॥
ततो गजपुटे पक्त्वा पुनरम्लेन मर्दयेत् ।
११.] आयुर्वेदप्रकाशः । १२९
तालेन दशमांशेन याममेकं ततः पुटेत् ।
एवं दशपुटैः पक्वं वङ्गं भवति मारितम् ॥ १७२ ॥
इति दशपुटि वङ्गभस्म ॥
अथ यशदस्य नामलक्षणगुणमारणानि ।
'जस्ता' इति भाषा ॥
जसदं रङ्गसदृशं रीतिहेतुश्च तन्मतम् ।
उक्तं च—
जशदं गिरिजं तस्य दोषाः शोधनमारणे ।
वङ्गस्येव हि बोद्धव्या गुणांस्तु प्रवदाम्यहम् ॥ १७३ ॥
गुणाः—
जसदं तुवरं तिक्तं शीतलं कफपित्तहृत् ।
चक्षुष्यं परमं मेहान् पाण्डुं श्वासं च नाशयेत् ॥ १७४ ॥
अथ नागस्योत्पत्तिनामलक्षणगुणशोधनमारणानि ।
दृष्ट्वा भोगिसुतां रम्यां वासुकिस्तु मुमोच यत् ।
वीर्यं जातस्ततो नागः सर्वरोगापहो नृणाम् ॥ १७५ ॥
नागः सीसं च वध्रं च योगेष्टं नागनामकम् ।
नागनामकं भुजङ्गादिपर्यायवाचकमित्यर्थः ॥
सीसं रङ्गगुणं ज्ञेयं विशेषान्मेहनाशनम् ॥ १७६ ॥
अन्यच्च—
नागः समीरकफपित्तविकारहन्ता
सर्वप्रमेहवनराजिकृपीटयोनिः ।
उष्णः सरो रजतरञ्जनकद्रुणाशो-
गुल्मग्रहण्यतिसृतिक्षणदांशुमाली ॥ १७७ ॥
नागस्तु नागशततुल्यबलं ददाति
व्याधिं विनाशयति जीवनमातनोति ।
१३० आयुर्वेदीयग्रन्थमाला । [ अध्यायः
वह्निं प्रदीपयति कामबलं करोति
मृत्युं च नाशयति संततसेवितः सः ॥ १७८ ॥
अशुद्धः कुरुते नागः प्रमेहक्षयकामलाः ।
तस्मात्संशुद्ध एवायं मारणीयो भिषग्वरैः ॥ १७९ ॥
अपक्वदोषाः—
पाकेन हीनौ किल नागवङ्गौ कुष्ठानि गुल्मांश्च तथाऽतिकष्टान् ।
पाण्डुप्रमेहानलसादशोथभगन्दरादीन् कुरुतः प्रयुक्तौ ॥ १८० ॥
अस्य शोधनं विशेषशोधनं च प्रागुक्तम् । अथ मारणम्—
अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।
मृत्पात्रे विद्रुते नागे लोहदर्व्या प्रचालयेत् ॥ १८१ ॥
यामैकेन भवेद्भस्म तत्तुल्या तु मनःशिला ।
काञ्जिकेन द्वयं पिष्ट्वा पुटेद्गजपुटेन च ॥ १८२ ॥
स्वाङ्गशीतं पुनः पिष्ट्वा शिलया काजिकेन च ।
पुनः पचेच्छरावाभ्यामेवं षष्टिपुटैर्मृतिः ॥ १८३ ॥
इति षष्टिपुटी नागभस्म ॥
ताम्बूलरससंपिष्टशिलालेपात्पुनः पुनः ।
द्वात्रिंशद्भिः पुटैर्नागो निरुत्थं भस्म जायते ॥ १८४ ॥
इति द्वात्रिंशत्पुटी नागभस्म । अथान्यमतम्—
भूभुजङ्गमगास्थि च पिष्ट्वाऽहेः पत्रमादिहेत् ।
हण्ड्यामग्नौ द्रवीकृत्य वासापामार्गसंभवम् ॥ १८५ ॥
क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरुक्तितः ।
प्रहरं पाचयेच्चुल्यां वासादर्व्या विघट्टयन् ॥ १८६ ॥
चूर्णीभूतं पिधायाथ कुर्यादग्निं समं पुनः ।
तत उद्धृत्य तच्चूर्णं शुद्धया शिलयाऽन्वितम् ॥ १८७ ॥
वस्वंशयाऽथ तत्सर्वं वासानीरैर्विमर्दयेत् ।
११.] आयुर्वेदप्रकाशः । १३१
पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् ।
एवं सप्तपुटैर्नागः सिन्दूराभो भवेद्ध्रुवम् ॥ १८८ ॥
भूभुजङ्गः भूनागः, अगस्तिर्मुनिद्रुमस्तत्पर्णरसम् । क्षारं
सौकर्याद्द्रस ग्राह्यम् । गुरुक्तिः स्वल्पं स्वल्पं प्रतिक्षणं देय-
मित्येवंरूपा, प्रहरं यावद्द्रस भवत्यखिलं तावत्, न तु प्रहर-
नियमः ॥
इति निरुत्थं नागभस्म । रसपद्धत्याम्—
नागं काष्ठकृशानुना पटुघटआष्ट्रे द्रुतं कन्यका-
मूलैर्घृष्टमिभाशनार्कबहुपाद्ब्रह्मद्रुमूलायसाम् ।
दण्डेनान्यतमस्य वा यदवधि स्यात्पिष्टिका तत्पुनः
सिन्दूरारुणमुद्धृतं च शिलया त्वंशया योजितम् १८९
कन्यावारिविभावितं पुनरपि प्राक्प्रक्रियोत्पादितं
त्रिः स्याद्रस करीषवह्निपुटितं प्रान्तेऽतिमन्दं सकृत् ।
कन्यामूलविघट्टनारहितया वङ्गोऽपि भस्मीभवे-
त्पूर्वप्रक्रिययैव मानसशिलास्थाने तु दत्तालया ॥१९०॥
व्याख्या—इभाशनः पिप्पलः, अर्कः प्रसिद्धः, बहुपा-
न्न्यग्रोधः, ब्रह्मद्रुः पलाशः, आयसं लोहं, एतेषामन्यतमेन
दण्डेन दर्व्या यदवधि पिष्टिका स्यात्तदवधि पटुघटआष्ट्रे
दृढघटार्धखण्डे, नागं काष्ठाग्निना द्रवीकृत्य, तत्र कन्यामूलं
शुष्कं कन्यारसं वा दत्त्वा, घृष्टं कुर्यादिति भावार्थः । पुटितं
त्रिःसप्तवारं कन्यावारिणा मर्दितं शरावसंपुटस्थं करीषाग्निषु
गजपुटेषु त्रिःपुटितं प्रान्तेऽतिमन्दपुटितं भस्म स्यात् । अमुं
प्रकारं वङ्गेऽप्यतिदिशति—कन्येत्यादि । स्पष्टम् । अथान्यः
प्रकारः—
नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते
निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् ।
१३२ आयुर्वेदीयग्रन्थमाला । [अध्यायः
एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटे-
द्वन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् १९१
अथान्यः प्रकारः—
त्रिभिः कुम्भिपुटैर्नागो वासारसविमर्दितः ।
सशिलो भस्मतामेति तद्रजः सर्वमेहनुत् ॥ १९२ ॥
कुम्भी गजः । नागो नागपिष्टिः। सशिलोऽष्टमांशशुद्धशिलायुक्तः।
'शरावसंपुटस्थः' इत्यध्याहार्यम् । इति नागभस्मीकरणम् ।
अथ नागभस्मनि विशेष उक्तो रसपद्धतिकृता । तद्यथा—
सर्वेषां मतमेतदेव भिषजां यत्तारसीसोद्भवं
पार्थक्येन गुणावहं न भसितं प्रोक्तोपलोहस्य च ।
किं कार्यं भसितस्य चेच्छृणु रसादिष्वेव योज्यं हि त-
त्तादृक्सङ्घटनानुरोधबलतः प्रोक्ताव्यवस्था इति॥१९३॥
अथ नागेश्वरः ।—
[L
११.] आयुर्वेदप्रकाशः । १३३
रीरसेन मर्दयेत्, तदुपरि अर्कदुग्धेन मर्दयेत् प्रहरैकं, पश्चात्त-
चक्रिकां कृत्वा संशोष्य शरावसंपुटे धृत्वा पञ्चपट्टकपरिमितै-
र्वनोपलैः पुटेत्, तदुत्तरं तस्य सहदेव्या रसेन पुटैकं दद्यात्,
ततः सिद्धो जातः । अथ प्रयोगः—रक्तिकाद्वयमस्य वाकुची-
चूर्णेन सह देयं दिनानि चत्वारिंशत्, पथ्यं गोधूमतिलतैलं,
औषधं भक्षयित्वा घर्मे प्रहरैकं स्थेयं, ततोऽल्पदिनैर्मण्डलपा-
काञ्जलस्रावोत्तरं क्रमेण सवर्णता । देवदारुदारुचिनीवाकुची-
युक्तं गलत्कुष्ठे, त्रिकटुदेवदारुयुक्तं वातरक्ते, मूत्रकृच्छ्रे
वाकुचीयुक्तं, दुग्धोदनं सर्वत्र पथ्यम् । इति नागेश्वरो रसः ॥
अथ लोहस्योत्पत्तिनामलक्षणभेदगुणशोधन-
मारणानि ।
पुरा लोमिलदैत्यस्य निहतस्य सुरैर्युधि ।
उत्पन्नानि शरीरेभ्यो लोहानि विविधानि वै ॥ १९४ ॥
अथ नामानि—
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ।
मुण्डं तीक्ष्णं तथा कान्तमिति लोहं त्रिधा स्मृतम् ॥ १९५ ॥
मुण्डं तु त्रिविधं तत्र मृदु कुण्ठं कडारकम् ।
तीक्ष्णकं षड्विधं प्राहुः खराख्यं सारसंज्ञकम् ॥ १९६ ॥
हुन्तालमपरं तारावहं वाजिरकालकम् ।
कान्तं पञ्चविधं ज्ञेयं आमकं चुम्बकं तथा ॥ १९७ ॥
कर्षकं द्रावकं तद्वद्रोमकान्तं च पञ्चमम् ।
एकास्यं द्विमुखं त्र्यास्यं वेदास्यं शरवक्त्रकम् ।
सर्वतोमुखमित्येवमुत्तमाधमकान्तकम् ॥ १९८ ॥
लक्षणम्—
भेदानां लक्षणान्यत्र न संप्रोक्तानि गौरवात् ।
आख्यया प्रस्फुटानि स्युर्मुख्यानां लक्ष्म कथ्यते ॥१९९॥
१२
१३४ आयुर्वेदग्रन्थमाला । [अध्यायः
मुण्डं तु वर्तुलं भूमौ पर्वतेषु च जायते ।
गजवह्व्यादि तीक्ष्णं स्यात् कान्तं चुम्बकसंभवम् ॥२००॥
अन्यच्च—
मुण्डात्कटाहपात्रादि जायते, तीक्ष्णलोहतः ।
खड्गादिशस्त्रभेदाः स्युः, कान्तलोहं तु दुर्लभम् ॥ २०१ ॥
मुण्डाच्छतगुणं तीक्ष्णं तीक्ष्णात्कान्तं शताधिकम् ।
तस्मान्मुण्डं परित्यज्य तीक्ष्णं वा कान्तमुत्तमम् ॥ २०२ ॥
'मारणाय' इति शेषः । अथ तीक्ष्णकान्तयोर्विशेषलक्षणानि—
कासीसामलकल्काक्ते लोहेऽङ्गं दृश्यते स्फुटम् ।
तीक्ष्णलोहं तदुद्दिष्टं मारणायोत्तमं विदुः ॥ २०३ ॥
अन्यच्च—
क्ष्माभृच्छिखराकाराण्यङ्गान्यम्लेन मर्दिते ।
लोहे स्युर्यत्र सूक्ष्माणि तत्सारमभिधीयते ॥ २०४ ॥
अस्य गुणाः—
लोहं साराह्वयं हन्याद्ग्रहणीमतिसारकम् ।
अर्धसर्वाङ्गजं वातं शूलं च परिणामजम् ॥
छर्दिं च पीनसं पित्तं श्वासमाशु व्यपोहति ॥ २०५ ॥
अथ कान्तलक्षणगुणाः—
यत्पात्रे न प्रसरति जले तैलविन्दुः प्रतप्ते
हिङ्गुर्गन्धं त्यजति च निजं तिक्ततां निम्बकल्कः ।
तप्तं दुग्धं भवति शिखराकारकं नैति भूमिं
कृष्णाङ्गः स्यात्सजलचणकः कान्तलोहं तदुक्तम् ॥२०६
कान्तायः कामलाशोफकुष्ठानि क्षयगुल्मकौ ।
शूलोदरार्शःप्लीहानमामवातं भगन्दरम् ॥ २०७ ॥
अम्लपित्तं यकृच्चापि शिरोरोगं हरेद्ध्रुवम् ।
१ 'लेपिते' ग. ।
११. ] आयुर्वेदप्रकाशः । १३५
बलं वीर्यं वपुःपुष्टिं कुरुतेऽग्निं विवर्धयेत् ।
सर्वान् गदान् विजयते कान्तलोहं न संशयः ॥ २०८ ॥
अथ सामान्यगुणाः—
लोहं शीतं सरं तिक्तं मधुरं तुवरं गुरु ।
रूक्षं वयस्यं चक्षुष्यं लेखनं वातलं, जयेत् ॥ २०९ ॥
कफं पित्तं गरं शूलं शोफार्शःप्लीहपाण्डुताः ।
मेदोमेहकृमीकुष्ठं तत्किट्टं तद्गुणं स्मृतम् ॥ २१० ॥
अथलोहदोषाः—
गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता ।
अश्मदोषः सदुर्गन्धो दोषाः सप्तायसः स्मृताः ॥ २११ ॥
अथाशुद्धगुणाः—
षण्ढत्वकुष्ठामयमृत्युदं भवेद्धृद्रोगशूलौ कुरुतेऽश्मरीं च ।
नानारुजानां च तथा प्रकोपं करोति हल्लासमशुद्धलोहम् २१२
अथासम्यङ्मारितस्य गुणाः—
जीवहारि मदकारि चायसं देहशूलकृदसंस्कृतं ध्रुवम् ।
पाटवं न तनुते शरीरके दारुणां हृदि रुजां च यच्छति २१३
अथ केचित्—
न रसेन विना लोहं न लोहं चाभ्रकं विना ।
एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥ २१४ ॥
पारदेन विना लोहं यः करोति पुमानिह ।
उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥ २१५ ॥
वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च । अथानुपान-
मेतस्य—
त्रिफलामधुसंयुक्तं सर्वरोगेषु योजयेत् ।
पथ्याशिनां लोहभस्म यथोक्तगुणदं भवेत् ॥ २१६ ॥
१३६ आयुर्वेदीयग्रन्थमाला। [ अध्यायः
अस्य मात्राप्रमाणं प्रागुक्तम्। अथ लोहसेविनां वर्ज्यानि—
कूष्माण्डं तिलतैलं च माषान्नं राजिकां तथा।
मद्यमम्लं मसूरांश्च त्यजेल्लोहस्य सेवकः ॥ २१७ ॥
अथ लोहोपद्रवे—
मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरं स्थितं घर्मे।
द्रावयति लोहदोषान् वह्निर्नवनीतपिण्डमिव ॥ २१८ ॥
काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्वारे।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥ २१९ ॥
अस्य लोहस्य ॥
कृमिरिपुसहितं लीढं सहितं स्वरसेन वङ्गसेनस्य।
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥ २२० ॥
आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये।
भवेद्यद्यतिसारश्च पीत्वा दुग्धं
११.] आयुर्वेदप्रकाशः । १३७
शस्त्रकृल्लोहकाराणां गृहे तद्बहुलं भवेत् ॥ २२५ ॥
तच्चूर्णं तु समानीय सुधौतं निर्मलं शुचि ।
युक्त्या संशोध्य विधिना मारणं तस्य कारयेत् ॥ २२६ ॥
युक्तिस्तु दृढशरावे वा लोहजशरावे वा तच्चूर्णं संस्थाप्य,
कोकिलैः शुल्कानीतैर्ध्मत्वा लोहकारादिभिर्ध्माययित्वा वा
भस्त्रावातेन, अग्निसमानं दृष्ट्वा, संदंशेन निष्कास्य, तन्मध्ये
तैलतक्रादि देयं; एवं सुकरं भवति । तैलतक्रादिषु चूर्णं
निक्षिप्तं चेत्पुनः पुनस्तस्मान्निष्कासने महत्प्रयास इति । एवं
यथाबुद्धिवैभवं शोधयेत् । पुनरन्योऽपि चूर्णप्रकारः—
संशुद्धं लोहजं पत्रं तप्तं तप्तं वराजले ।
गोजले वा मुहुः क्षिप्तं क्षिप्रं चूर्णत्वमाप्नुयात् ॥ २२७ ॥
पुनरन्योऽपि चूर्णप्रकारः—
स्थूलाभ्यः सिकताभ्योऽपि चुम्बकेन शनैर्मुहुः ।
लोहचूर्णं हि गृह्णन्ति सुसूक्ष्मं मारणे हितम् ॥ २२८ ॥
अथ विशेषशोधनम्—
तैलतक्रादिसंशुद्धं लोहं शोध्यं विशेषतः ।
प्रोक्तदोषविनाशाय तदिदानीमिहोच्यते ॥ २२९ ॥
त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।
तत्काथे पादशेषे तु लोहस्य पलपञ्चकम् ॥ २३० ॥
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसंभवः ॥ २३१ ॥
अथात्र कान्तलोहे विशेषः—
शशरक्तेन संलिप्तं किंवाऽऽर्कपयसाऽऽयसम् ।
दलं हुताशने ध्मातं सिक्तं त्रैफलवारिणि ॥
त्रिशः कान्तस्य संशुद्धिरित्येवं परमा भवेत् ॥ २३२ ॥
१ 'तत्सूक्ष्मं' ग. ।
१३८ आयुर्वेद्रीयग्रन्थमाला । [ अध्यायः
अन्यत्रापि—
तप्तं क्षाराम्लसंयुक्तं शशरक्तेन भावितम् ।
कान्तलोहं भवेच्छुद्धं सर्वदोषविवर्जितम् ॥ २३३ ॥
अत्रान्योऽपि विशेषः—
तत्तद्व्याध्युपयुक्तानामौषधानां जलेऽयसः ।
प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥ २३४ ॥
ततः सामान्यविशेषशोधनतः । अन्यच्च—
सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले ।
शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥ २३५ ॥
इति विशेषशोधनम् । अथ भस्मप्रकारः—
संशुद्धं लोहचूर्णं तु समानीय भिषग्वरः ।
अपक्वतिन्दुकफलरसैः संमर्दयेद्दिनम् ॥ २३६ ॥
त्रिफलाभृङ्गराजस्य कण्टकारीरसस्य च ।
पुटानि त्रीणि दत्तानि सत्यं वारितरं भवेत् ॥ २३७ ॥
तत्तद्रोगानुपानेन सर्वरोगहरं भवेत् ।
लाला अनूपरायेण उपदिष्टं न संशयः ॥ २३८ ॥
शुद्धस्य सूतराजस्य भागो भागद्वयं बलेः ।
द्वयोः समं सारचूर्णं मर्दयेत्कन्यकाम्बुना ॥ २३९ ॥
यामद्वयं तस्य गोलं संवेष्ट्यैरण्डजैर्दलैः ।
ततः सूत्रेण संबध्य स्थापयेत्ताम्रसंपुटे ॥ २४० ॥
संमुद्र्य वदनं तस्य मृदा संशोष्य तत्पुनः ।
त्रिदिनं धान्यराशिस्थं तत उद्धृत्य मर्दयेत् ॥ २४१ ॥
रजस्तद्वस्त्रगलितं नीरे तरति हंसवत् ।
सोमामृताभिदमिदं लोहभस्म प्रकीर्तितम् ॥ २४२ ॥
इति निरग्निकं सोमामृताभिदं लोहभस्म । अथ रसपद्धत्यां
सूर्यतापि लोहभस्म उक्तम्—