आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 25, कुल 232 में से
संदर्भ में पढ़ें६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः
त्र्यूषणं लवणं राजी लशुनं त्रिफलाऽऽर्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा ॥ ४१ ॥
मेषशृङ्गी चित्रकञ्च नवसारः समं समम् ।
रसस्य षोडशांशेन सर्वं युञ्ज्यात् पृथक् पृथक् ॥ ४२ ॥
एतत्समस्तं व्यस्तं वा पूर्वाम्लेनैव पेषयेत् ।
प्रलिम्पेत्तेन कल्केन वस्त्रं चाङ्गुलिमात्रकम् ॥ ४३ ॥
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा तत्रिदिनं पचेत् ।
दोलायन्त्रेऽम्लसंयुक्ते जायते स्वेदितो रसः ॥ ४४ ॥
मेघनादस्तण्डुलीयभेदः पत्रशाकविशेषः 'चवलाई' इति
भाषा, शृङ्गी मेषशृङ्गी तदलाभे कर्कटशृङ्गी ग्राह्या, नवसारो
नवसागरः क्षारविशेषः ॥
अथान्यत्सिद्धमतम् ।—
त्र्यूषणं लवणासुर्यौ चित्रकार्द्रकमूलकम् ।
पिष्ट्वा सूतो मुहुः स्वेद्यः काञ्जिकेन दिनत्रयम् ॥ ४५ ॥
त्र्यूषणं त्रिकटु, लवणं सैन्धवं, आसुरी राई, चित्रकः प्र-
सिद्धः, आर्द्रकं शृङ्गवेरं, मूलकं श्वेतमूलकः 'मुली' इति भाषा ।
पिष्ट्वा तत्कल्केन वस्त्रं लिप्त्वात्यादि पूर्ववत् । मुहुरिति प्रति-
दिनं कल्कावृत्तिरित्यर्थः ॥
अथान्यत्सिद्धमतम् ।—
दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके ।
रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ॥ ४६ ॥
व्योषं त्रिकटु, वरा त्रिफला, वह्निश्चित्रकः; कन्या 'कुवारी'
इति भाषा, तन्मध्यगर्भो ग्राह्यः ॥
इत्यष्टौ सूतसंस्काराः समा द्रव्ये रसायने ।
शेषा द्रव्योपयोगित्वान्न ते वैद्योपयोगिनः ॥ ३६ ॥