आयुर्वेद दर्शन
Ayurveda Darshan
वैद्य महादेव चन्द्रशेखर पाठक द्वारा
स्रोत: 1949 Edition · De Ra Ekatara Indoor · 1949 (उद्गम)
पृष्ठ 170, कुल 235 में से
संदर्भ में पढ़ें१५०
आयुर्वेद-दर्शन
सात्त्व्यजज्ञायं गर्भः न ह्यसात्त्व्यसेवित्वमंतरेण स्त्रीपुरुष-
योर्यन्ध्यत्वमस्ति गर्भेषु वाप्यनिष्टो भावः, यावत् खलु
असात्त्व्य सेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकृपिताः शरीरमुप-
सर्पते न शुक्लशोणितगर्भाशयोपघातायोपपद्यते, तावत्
समर्था गर्भजननाय भवति । सात्त्व्यसेविनां पुनः स्त्री-
पुरुषाणाम् अनुपहत शुक्लशोणितगर्भाशयानाम् ऋतुकाले सन्नि-
पतितानां जीवस्य अन्वक्रमणात् गर्भा न प्रादुर्भवति । नहि
केवलं सात्त्व्यज एवायं गर्भः, समुदायोऽत्र कारणमुच्यते ।
यानि खल्वस्य गर्भस्य सात्त्व्यजानि, यानि चास्य सात्त्व्यतः
संभवतः संभवति तान्यनुव्याख्यास्यामः । तद्यथा-आरोग्य-
मनालस्यमलोलुपत्त्वमिन्द्रियप्रसादः स्वरवर्णबीजसंपत्प्रहरि भूयस्त्वं
चेति सात्त्व्यजानि ।
रसजज्ञायं गर्भः न हि रसादृते मातुः प्राणयात्रापि स्यात्
किं पुनर्गर्भं जन्म । न चैवम् असम्यगुपयुज्यमाना रसा गर्भ-
मभिनिर्वर्तयति । न च केवलं सम्यगुपयोगादेव रसानां गर्भाभि-
निर्वृत्तिर्भवति । समुदायोऽप्यत्र कारणमुच्यते । यानि तु
खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः संभवतः संभवति
तान्यनुव्याख्यास्यामः । तद्यथा शरीरस्याभिनिर्वृत्तिः अभिवृद्धिः
प्राणानुबंधः तृप्तिः पुष्टिरुत्साहश्चेति रसजानि ।
अस्ति खल्वपि सत्त्वं उपपादुकम्, यत् जीवं 'स्पृक्-
शरीरेण' अभिसंबध्नाति, यस्मिन् अपगमनपुरस्कृते शीलमस्य