आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 197, कुल 292 में से
संदर्भ में पढ़ेंतृतीयः खण्डः ] अनाविलेापेतम् । १४५
प्राचीनावीती सुमन्तुजैमिनिवैशम्पायनपैलसूत्र-
भाष्यमहाभारतधर्माचार्या जानन्तिबाहाविगार्ग्यगौतम-
शाकल्यवाभ्रव्यमाण्डव्यमाण्डूकेया गार्गीवाचक्नवी ब-
डबाप्रातिथेयी सुलभा मैत्रेयी कहोलं कौषीतकं महा-
कौषीतकं भरद्वाजं पैङ्ग्यं महापैङ्ग्यं सुयज्ञं शाङ्खाय-
नमैतरेयं महैतरेयं बाष्कलं शाकलं गार्ग्यं सुजातवक्त्रम्
औद्वाहिं सौजाभिं शौनकमाश्वलायनं ये चान्ये आ-
चार्यास्ते सर्वे$^१$ तृप्यन्तु ॥ ५ ॥
सुमन्तुप्रभृतीनामपि पितृष्वेवान्तर्भावः प्राचीनावीत-
दर्शनात् । कल्पान्तरेष्वपि वैशम्पायनप्रभृतीनामेव तर्पणं
विहितम् । गर्गवाचक्नवीति प्रसिद्धः पाठः । कहोलमित्यादिषु
द्वितीयानिर्दिष्टेषु तर्पयामीति भवति । कहोलं तर्पयामीति ।
ये चान्ये इत्यादिरेको मन्त्रः ॥ ५ ॥
प्रतिपुरुषं पितॄंस्तर्पयित्वा गृहानेत्य यद्ददाति सा
दक्षिणा ॥ ६ ॥
मातॄणां मातामहादीनां मातामह्यादीनां च तर्पणमि-
च्छन्ति । तत्र विप्रतिपत्तिः । केचित् पित्रादीनां नाम्ना त-
र्पणमिच्छन्ति देवदत्तं यज्ञदत्तं विष्णुमित्रमिति । एवं मा-
त्रादीनामपि। प्रसिद्धस्त्वाचारः पितरं तर्पयामीत्यादि, एवं पि-
तामहं प्रपितामहं मातरं पितामहीं प्रपितामहीम् इति । एवं
मातामहवर्गेऽपि । एतेषां पितृतीर्थेन तर्पणम् । अत्र याज्ञ-
वल्क्यः —
१. 'र्वे यु' ख. ग. घ. पाठः.