सामग्री पर जाएँ
सर्वकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 145, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 145

एकविंशः खण्डः] अनाविलोपेतम् । ९५

एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्या-
हुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २३ ॥

य आर्त्विज्यं करोति तस्य तत्समाप्ताविदं नैमित्ति-
कमुच्यते । एतेनाग्ने इत्यृचा दक्षिणाग्नावाज्यहुतिं जुहुयात्
ततो यथार्थं प्रव्रजेत् । देशान्तरगमनमांसाशनादिकमस्य न
प्रतिषिध्यते । पूर्वं तु प्रतिषिध्यत इति ॥ २३ ॥

एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो
न इत्येतयर्चा ॥ २४ ॥

हुत्वा यथार्थं प्रव्रजेदिति वर्तते । अनाहिताग्नेरार्त्वि-
ज्यं कृतवत ऋगग्निश्च भिद्यते । अन्यत् समानम् । पाद-
ग्रहणादेव सिद्धे ऋचेति वचनं विस्पष्टार्थम् । ऋत्विग्भ्यो म-
धुपर्को देय इति वक्ष्यते । तत्र के त ऋत्विज इत्यपेक्षामपने-
तुमिहर्त्विग्वरणमाम्नातम् ॥ २४ ॥

इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ
प्रथमाध्याये विंशः खण्डः ।


अथैकविंशः खण्डः ।

ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥

दद्यात् । वृत्वेति वचनाद् वरणानन्तरमेव ऋत्विजां
मधुपर्कः, न प्रत्यहम् ॥ १ ॥

स्नातकायोपस्थिताय ॥ २ ॥

स्नातकः कृतसमावर्तनः । तस्मै उपस्थिताय गुरु-
कुलादागताय मधुपर्कमाहरेत् । तत्र मनुः—