सामग्री पर जाएँ
सर्वकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 130, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 130

८० आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
त्वाद् विकल्पः । अग्नये समिधमाहार्षं बृहते जातवेदसे तया
त्वमग्ने वर्धस्व समिधा ब्रह्मणा वयं स्वाहेति मन्त्रः ॥ १ ॥
स समिधमाधायाग्निमुपस्पृश्य मुखं निमार्ष्टि
त्रिस्तेजसा मा समनज्मीति ॥ २ ॥
स इत्युच्यते नियमार्थम् अन्यत्र समिदाधाने संमा-
र्जनं मा भूदिति समिधौ वा जपेद्वेति (?)। समिद्ग्रहणमनर्थकं
प्रकृतत्वात् । तत् क्रियते उभयोरपि पक्षयोर्यथा स्यादिति म-
न्त्रपक्षे चामन्त्रपक्षे च । आधायाग्रहणं सायं प्रातः समिध-
मादध्यादित्यत्राप्युत्तरो१ विधैर्यथा स्यादिति । प्रतिनिमार्जन-
मग्नेरुपस्पर्शनं मन्त्रश्च भवति ॥ २ ॥
तेजसा ह्येवात्मानं समनक्तीति विज्ञायते ॥ ३ ॥
ब्राह्मणानुकर्षणं प्ररोचनार्थम् ॥ ३ ॥
मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु
मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि
मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु । यत्ते अग्ने
तेजस्तेनाहं तेजस्वी भूयासं यत्ते अग्ने वर्चस्तेनाहं
वर्चस्वी भूयासं यत्ते अग्ने हरस्तेनाहं हरस्वी भूयासम्
इत्युपस्थाय जान्वाच्योपसंगृह्य ब्रूयाद् अधीहि भोः सा-
वित्रीं भो अनुब्रूहीति ॥ ४ ॥
ततो मयि मेधामित्यादिभिरग्निमुपतिष्ठेत । एतच्च सायं-
प्रातः समिधमादध्यादित्यत्र नित्येऽपि समिदाधाने भवति ।
१. 'रतो वि' ख. पाठः.