अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 58, कुल 102 में से
संदर्भ में पढ़ें५८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
१२६ ई३ चाक्रवर्मणस्य।
१२७ दिव उत्।
१२८ एतत्तदोः सुलोपोऽकोरनञ्-
समासे हलि।
१२९ स्यश्छन्दसि बहुलम्।
१३० सोऽचि लोपे
चेत्पादपूरणम्।
१३१ सुट् कात्पूर्वः।
१३२ सम्परिभ्यां करोतौ भूषणे।
१३३ समवाये च।
१३४ उपात्प्रतियत्नवैकृत-
वाक्याध्याहारेषु।
१३५ किरतौ लवने।
१३६ हिंसायां प्रतेश्च।
१३७ अपाच्चतुष्पाच्छकुनिष्वा-
लेखने।
१३८ कुस्तुम्बुरूणि जातिः।
१३९ अपरस्पराः क्रियासातत्ये।
१४० गोष्पदं सेवितासेवित-
प्रमाणेषु।
१४१ आस्पदं प्रतिष्ठायाम्।
१४२ आश्चर्यमनित्ये।
१४३ वर्चस्केऽवस्करः।
१४४ अपस्करो रथाङ्गम्।
१४५ विष्किरः शकुनौ वा।
१४६ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे।
१४७ प्रतिष्कशश्च कशेः।
१४८ प्रस्कण्वहरिश्चन्द्रावृषी।
१४९ मस्करमस्करिणौ
वेणुपरिव्राजकयोः।
१५० कास्तीराजस्तुन्दे नगरे।
१५१ पारस्करप्रभृतीनि च
संज्ञायाम्।
१५२ अनुदात्तं पदमेकवर्जम्।
१५३ कर्षात्वतो घञोऽन्त उदात्तः।
१५४ उच्चादीनां च।
१५५ अनुदात्तस्य च
यत्रोदात्तलोपः।
१५६ धातोः।
१५७ चितः।
१५८ तद्धितस्य।
१५९ कितः।
१६० तिसृभ्यो जसः।
१६१ चतुरः शसि।
१६२ सावेकाचस्तृतीयादिर्
विभक्तिः।
१६३ अन्तोदात्तादुत्तरपदादन्य-
तरस्यामनित्यसमासे।
१६४ अञ्चेश्छन्दस्यसर्वनाम-
स्थानम्।
१६५ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः।
१६६ अष्टनो दीर्घात्।
१६७ शतुरनुमो नद्याजादी।
१६८ उदात्तयणो हल्पूर्वात्।
१६९ नोड्धात्वोः।
१७० ह्रस्वनुड्भ्यां मतुप्।