अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 30, कुल 102 में से
संदर्भ में पढ़ें३० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
(वामस्तम्भः / Left Column)
१७ प्राचां ष्फस्तद्धितः।
१८ सर्वत्र लोहितादिकतन्तेभ्यः।
१९ कौरव्यमाण्डूकाभ्यां च।
२० वयसि प्रथमे।
२१ द्विगोः।
२२ अपरिमाणबिस्ताचितकम्बल्याभ्यो
न तद्धितलुकि।
२३ काण्डान्तात्क्षेत्रे।
२४ पुरुषात्प्रमाणेऽन्यतरस्याम्।
२५ बहुव्रीहेरूधसो ङीष्।
२६ सङ्ख्याव्ययादेर्डीप्।
२७ दामहायनान्ताच।
२८ अन उपधालोपिनोऽन्यतरस्याम्।
२९ नित्यं सञ्ज्ञाछन्दसोः।
३० केवलमामकभागधेयपापापर-
समानार्यकृतसुमङ्गलभेषजाच्च।
३१ रात्रेश्चाजसौ।
३२ अन्तर्वत्पतिवतोर्नुक्।
३३ पत्युर्नो यज्ञसंयोगे।
३४ विभाषा सपूर्वस्य।
३५ नित्यं सपत्न्यादिषु।
३६ पूतक्रतोरै च।
३७ वृषाकप्यग्निकुसित-
कुसीदानामुदात्तः।
३८ मनोरौ वा।
३९ वर्णादनुदात्तात्तोपधात्तो नः।
४० अन्यतो ङीष्।
(दक्षिणस्तम्भः / Right Column)
४१ षिद्गौरादिभ्यश्च।
४२ जानपदकुण्डगोणस्थलभाजनाग-
कालनीलकुशकामुककबराद्
वृत्त्यमत्रावपनाकृत्रिमाश्राणा-
स्थौल्यवर्णानाच्छादनायो-
विकारमैथुनेच्छाकेशवेशेषु।
४३ शोणात्प्राचाम्।
४४ वोतो गुणवचनात्।
४५ बह्वादिभ्यश्च।
४६ नित्यं छन्दसि।
४७ भुवश्च।
४८ पुंयोगादाख्यायाम्।
४९ इन्द्रवरुणभवशर्वरुद्रमृड-
हिमारण्ययवयवनमातुला-
चार्याणामानुक्।
५० क्रीतात्करणपूर्वात्।
५१ क्तादल्पाख्यायाम्।
५२ बहुव्रीहेश्चान्तोदात्तात्।
५३ अस्वाङ्गपूर्वपदाद् वा।
५४ स्वाङ्गाच्चोपसर्जनाद-
संयोगोपधात्।
५५ नासिकोदरौष्ठजङ्घादन्तकर्ण-
शृङ्गाच्च।
५६ न क्रोडादिबह्वचः।
५७ सह्नञ्विद्यमानपूर्वाच्च।
५८ नखमुखात्सञ्ज्ञायाम्।
५९ दीर्घजिह्वी चच्छन्दसि।