अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 28, कुल 102 में से
संदर्भ में पढ़ें२८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
[ वामस्तम्भः ]
५१ प्रमाणे च।
५२ अपादाने परीप्सायाम्।
५३ द्वितीयायां च।
५४ स्वाङ्गेऽध्रुवे।
५५ परिक्लिश्यमाने च।
५६ विशिपदिस्कन्दां व्याप्यमाना-
सेव्यमानयोः।
५७ अस्यतितृषोः क्रियान्तरे
कालेषु।
५८ नाम्यादिशिग्रहोः।
५९ अव्ययेऽयथाभिप्रेताख्याने
कृञः क्त्वाणमुलौ।
६० तिर्यच्यपवर्गे।
६१ स्वाङ्गे तस्प्रत्यये कृभ्वोः।
६२ नाधार्थप्रत्यये च्यर्थे।
६३ तूष्णीमि भुवः।
६४ अन्वच्यानुलोम्ये।
६५ शकधृषज्ञाग्लाघटरभलभक्रम-
सहाहार्त्स्यर्थेषु तुमुन्।
६६ पर्याप्तिवचनेष्वलमर्थेषु।
६७ कर्तरि कृत्।
६८ भव्यगेयप्रवचनीयोपस्थानीय-
जन्याप्लाव्यापात्या वा।
६९ लः कर्मणि च भावे
चाकर्मकेभ्यः।
७० तयोरेव कृत्यक्तखलर्थाः।
७१ आदिकर्मणि क्तः कर्तरि च।
[ दक्षिणस्तम्भः ]
७२ गत्यर्थाकर्मकश्लिषशीङ्स्थास-
वसजनरुहजीर्यतिभ्यश्च।
७३ दाशगोघ्नौ सम्प्रदाने।
७४ भीमादयोऽपादाने।
७५ ताभ्यामन्यत्रोणादयः।
७६ क्तोऽधिकरणे च ध्रौव्यगति-
प्रत्यवसानार्थेभ्यः।
७७ लस्य।
७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्-
ताताञ्झथासाथान्ध्वमिड्वहि-
महिङ्।
७९ टित आत्मनेपदानां टेरे।
८० थासः से।
८१ लिटस्तझयोरेशिरेच्।
८२ परस्मैपदानां णलतुसुस्थलथुस-
णल्वमाः।
८३ विदो लटो वा।
८४ ब्रुवः पञ्चानामादित आहो
ब्रुवः।
८५ लोटो लङ्खत्।
८६ एरुः।
८७ सेर्ह्यपिच्च।
८८ वा छन्दसि।
८९ मेर्निः।
९० आमेतः।
९१ सवाभ्यां वामौ।
९२ आडुत्तमस्य पिच्च।