अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 18, कुल 102 में से
संदर्भ में पढ़ें१८ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
[वामस्तम्भः / Left Column]
११० ऋदुपधाच्चाक्लृपिचृतेः।
१११ ई च खनः।
११२ भृञोऽसञ्ज्ञायाम्।
११३ मृजेर्विभाषा।
११४ राजसूयसूर्यमृषोद्यरुच्यकुप्य-
कृष्टपच्याव्यथ्याः।
११५ भिद्योद्ध्वौ नदे।
११६ पुष्यसिद्धयौ नक्षत्रे।
११७ विपूयविनीयजित्या
मुञ्जकल्कहलिषु।
११८ प्रत्यपिभ्यां ग्रहेः।
११९ पदास्वैरिबाह्यापक्ष्येषु च।
१२० विभाषा कृवृषोः।
१२१ युंग्यं च पत्रे।
१२२ अमावास्यदन्यतरस्याम्।
१२३ छन्दसि निष्कर्यदेवहूय-
प्रणीयोन्नीयोच्छिष्यमर्यस्तर्या-
ध्वर्यखन्यखान्यादेवयज्या-
पृच्छ्यप्रतिषीव्यब्रह्मवाद्य-
भाव्यस्ताव्योपचाय्यपृडानि।
१२४ ऋहलोर्ण्यत्।
१२५ ओरावश्यके।
१२६ आसुयुवपिरपिलपित्रपिचमश्च।
१२७ आनाय्योऽनित्ये।
१२८ प्रणाय्योऽसम्मत्तौ।
१२९ पाय्यसान्नाय्यनिकाय्यधाय्या
मानहविर्निवाससामिधेनीषु।
[दक्षिणस्तम्भः / Right Column]
१३० क्रतौ कुण्डपाय्यसञ्चाय्यौ।
१३१ अग्नौ परिचाय्योपचाय्य-
समूह्याः।
१३२ चित्याग्निचित्ये च।
१३३ ण्वुल्तृचौ।
१३४ नन्दिग्रहिपचादिभ्यो
ल्युणिन्यचः।
१३५ इगुपधज्ञाप्रीकिरः कः।
१३६ आतश्चोपसर्गे।
१३७ पाघ्राध्माधेट्दृशः शः।
१३८ अनुपसर्गाल्लिम्पविन्दधारि-
पारिवेद्युदेजिचेतिसाति-
साहिभ्यश्च।
१३९ ददातिदधात्योर्विभाषा।
१४० ज्वलितिकसन्तेभ्यो णः।
१४१ श्याद्व्यधास्रुसंस्रुवतीणव-
सावहलिहश्लिषश्वसश्च।
१४२ दुन्योरनुपसर्गे।
१४३ विभाषा ग्रहः।
१४४ गेहे कः।
१४५ शिल्पिनि ष्वुन्।
१४६ गस्थकन्।
१४७ ण्यउत् च।
१४८ हश्च व्रीहिकालयोः।
१४९ प्रसुल्वः समभिहारे वुन्।
१५० आशिषि च।
--o--