अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 10, कुल 102 में से
संदर्भ में पढ़ें१० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
(प्रथमः पादः - अनुवृत्तः)
[वाम स्तम्भः]
३४ भक्ष्येण मिश्रीकरणम्।
३५ चतुर्थी तदर्थार्थबलिहितसुख-
रक्षितैः।
३६ पञ्चमी भयेन।
३७ अपेतापोधमुक्तपतिताप-
त्रस्तैरल्पशः।
३८ स्तोकान्तिकदूरार्थकृच्छ्राणि
क्तेन।
३९ सप्तमी शौण्डैः।
४० सिद्धशुष्कपक्वबन्धैश्च।
४१ ध्वाङ्क्षेण क्षेपे।
४२ कृत्यैर्ऋणे।
४३ सञ्ज्ञायाम्।
४४ क्तेनाहोरात्रावयवाः।
४५ तत्र।
४६ क्षेपे।
४७ पात्रेसमितादयश्च।
४८ पूर्वकालैकसर्वजरत्पुराणनव-
केवलाः समानाधिकरणेन।
४९ दिक्सङ्ख्ये सञ्ज्ञायाम्।
५० तद्धितार्थोत्तरपदसमाहारे च।
५१ सङ्ख्यापूर्वो द्विगुः।
५२ कुत्सितानि कुत्सनैः।
५३ पापाणके कुत्सितैः।
५४ उपमानानि सामान्यवचनैः।
५५ उपमितं व्याघ्रादिभिः
सामान्याप्रयोगे।
[दक्षिण स्तम्भः]
५६ विशेषणं विशेष्येण बहुलम्।
५७ पूर्वापरप्रथमचरमजघन्य-
समानमध्यमध्यमवीराश्च।
५८ श्रेण्यादयः कृतादिभिः।
५९ क्तेन नञ्विशिष्टेनानञ्।
६० सन्महत्परमोत्तमोत्कृष्टाः
पूज्यमानैः।
६१ वृन्दारकनागकुञ्जरैः
पूज्यमानम्।
६२ कतरकतमौ जातिपरिप्रश्ने।
६३ किं क्षेपे।
६४ पोटा युवतिस्तोककतिपयगृष्टि-
धेनुवशावेहदबष्कयणीप्रवक्तृ-
श्रोत्रियाध्यापकधूर्त्तैर्जातिः।
६५ प्रशंसावचनैश्च।
६६ युवा खलतिपलितवलिन-
जरतीभिः।
६७ कृत्यतुल्याख्या अजात्या।
६८ वर्णो वर्णेन।
६९ कुमारः श्रमणादिभिः।
७० चतुष्पादो गर्भिण्या।
७१ मयूरव्यंसकादयश्च।
--०--
द्वितीयः पादः
१ पूर्वापराधरोत्तरमेक-
देशिनैकाधिकरणे।
२ अर्धं नपुंसकम्।