आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 89, कुल 134 में से
संदर्भ में पढ़ेंआर्यभटीये— ५३
'त्रिंशता तिथिभिर्मासश्चान्द्रः पित्र्यमहः स्मृतम् । सू० सि०
इति ॥ ग्रहाणां युगकालं ब्राह्मदिनकालञ्चाह ।
भा०:—सौर वर्ष को मानुष्य वर्ष भी कहते हैं । मानुष्य वर्ष को ३० से गुणन
करने पर पित्र्यवर्ष होता है । और पित्र्यवर्ष को १२ से गुणन करने पर
दिव्यवर्ष होता है । यहां सौरमान से पित्र्यदिन कहा है परन्तु सूर्यसि-
द्धान्त आदि ग्रन्थों में चान्द्रमान से कहा गया है ॥७॥
दिव्यं वर्षसहस्रं ग्रहसामान्यं युगं द्विषट्कगुणम् ।
अष्टोत्तरं सहस्रं ब्राह्मो दिवसो ग्रहयुगानाम् ॥ ८
दिव्यं वर्षसहस्रं द्विषट्कगुणं द्वादशगुणितं ग्रहसामान्यं युगं भवति । सर्वे-
षाम् ग्रहाणां युगमित्यर्थः । युगादौ सर्वेषां ग्रहाणा मण्डलादिगतत्वात्तेषां म-
ध्यमानयने युगविशेषो नास्तीति सामान्यशब्देन द्योतितम् ॥ कालस्योत्सर्पि-
ण्यादिविभागमाह ।
भा०:—१००० दिव्यवर्ष को १२ से गुणन कर गुणनफल ग्रह सामान्य युग
होगा । अर्थात् सब ग्रहों का युग होगा । युग की आदि में सब ग्रहों को म
ण्डल के आदि में होने से इन के मध्यामयन में कोई युग विशेष नहीं है ॥८॥
उत्सर्पिणी युगाधं पश्चादवसर्पिणी युगाधञ्च ।
मध्ये युगस्य सुषमादावन्ते दुष्षमेन्दूच्चात् ॥ ९ ॥ *
अस्यार्थो व्याख्याकारेण न प्रदर्शितः । अतो भटप्रकाशिकायां यदुक्तं
तदत्र लिख्यते । यस्मिन् काले प्राणिनामायुर्यशोवीर्यादीन्युपचीयन्ते स काल
उत्सर्पिणीसंज्ञः । यस्मिन्नपचीयन्ते सोऽवसर्पिणीसंज्ञः । युगस्य पूर्वार्धमुत्सर्पि-
णीकालः । अपरार्धमवसर्पिणीकालः । युगस्य मध्यमस्त्र्यंशः समकालः । आद्य-
न्तौ ( सुषमा ) दुष्षमासंज्ञौ त्र्यंशौ । एतत्सर्वमिन्दूच्चात्प्रभृति प्रतिपत्तव्यम् ।
अस्यार्थोऽभियुक्तैर्निरूप्य वक्तव्यः । इति प्रकाशिकायां व्याख्यानम् । अत्र इन्दू
च्चात्प्रभृति प्रतिपत्तव्यमित्यनेन किमुक्तमिति न जानीमः । उक्तार्थस्य ग्रहगणि-
तोपयोगित्वमपि न पश्यामः । एवं वार्थः । इन्दूच्चात्प्रभृति गतिमतां गतिर्यु-
गाद्यर्धे उत्सर्पिणी, अपरार्धेऽवसर्पिणी मध्ये समा च । मध्यकालावस्थिति-
प्रदेशादूर्ध्वमधो वा ग्रहाणामवस्थितिर्युगान्तयोर्भवति । अतो मध्यमगतेर्भेद-
स्यात् । तस्मात्काले-काले निरूप्य 'मध्यमसंस्कारः कार्य इत्यर्थः । अथवा ।'
- भटदीपिकापुस्तकदये सुषमा, चादावन्ते च दु० इत्यपपाठः ।