आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 113, कुल 134 में से
संदर्भ में पढ़ेंमेषादिगमुदगधं देवाः पश्यन्ति । तुलादिगं दक्षिणमर्धं नरकवासिनः पश्यन्ति ।
इत्यर्थः । केचिदेवं वदन्ति । ज्योतिष्चक्रस्योदगधं सव्यं सव्यगं मेरुस्था देवाः
पश्यन्ति । दक्षिणमर्धमपसव्यगमसुराः पश्यन्ति । तथाच ब्रह्मगुप्तः ।
" सौम्यमपमण्डलार्ध मेषाद्यं सव्यगं सदा देवाः ।
पश्यन्ति तुलार्धं दक्षिणमपसव्यगं दैत्याः ॥ "
इति । अत्रैवं योज्यम् । मेरुवडवामुखयोर्ज्योतिश्चक्रवद्भ्रमतां देवासुराणां
सव्यगमपसव्यगञ्चेति । अपसव्यगशब्दो हि दक्षिणवाचकः । देवादीनां दिनप्र-
माणमाह ।
भा०:—मेरुनिवासी ( देवगण ) ज्योतिष्चक्र के उत्तर गोलार्द्ध को देखते
हैं और दक्षिण मेरुनिवासी ( प्रेत ) असुरगण दक्षिण गोलार्द्ध को देखते हैं ।
अर्थात् मेष, वृष, मिथुन, कर्क, सिंह, कन्या, इन छः राशि पर्य्यन्त भगोलार्द्ध को
देवगण देखते, उस समय दक्षिण मेरुनिवासी ( असुर ) तुला, वृश्चिक, धनु,
मकर, कुम्भ, मीन, राशि पर्य्यन्त दक्षिण गोलार्द्ध को देखते हैं ॥ १६ ॥
रविवर्षार्धं देवाः पश्यन्त्युदितं रविं तथा प्रेताः ।
शशिमासार्धं पितरश्शशिगाः कुदिनार्धमिह मनुजाः ॥१७
रविवर्षार्धे मेषमासादिकन्यामासान्तं देवासदोदितं रविं पश्यन्ति मेषा-
दिकन्यान्तराशीनां मेरुक्षितिजादूर्ध्वगतत्वात् क्षितिजवच्चक्रमणाच्च । अतो
मेषादिमासषट्कं देवानां दिनं भवति । तुलामासादि मीनमासान्तं देवा रविं
कदाचिदपि न पश्यन्ति तुलादिराशिपट्कस्य मेरुक्षितिजादधोगतत्वात् क्षिति-
जानुसारेण चक्रमणाच्च । अतस्तुलादिमासषट्कं देवानां रात्रिर्भवति । तथा
प्रेताः । नरकवासिनश्च तथा रविवर्षार्धं रविं पश्यन्ति । किन्तु तुलामासादि
मीनमासान्तं रविं पश्यन्ति । अतस्तदा तेषां दिनं भवति । मेषमासादि मीन-
मासान्तं रविं कदाचिन्न पश्यन्ति ॥ अतस्तदा तेषां रात्रिर्भवति । मेरुबडवा
मुखयोरूर्ध्वाधोदिशौ व्यत्यायाद्भवतः । अतस्तयोर्द्दिनरात्री च व्यत्ययेन भवतः ॥
मृगादिमासषट्कं देवानां दिनमिति यो व्यवहारस्स तु तत्र वैदिककर्मणां
विहितत्वात् कृतः कर्कादिमासषट्के अविहितत्वात्तेषां रात्रिरिति च व्यवहारः
कृतः । अत्र वराहमिहिरः ।
" मेषवृषमिथुनसंस्थे दिनमर्के कर्कटादिगे रात्रिः ।
मेरुस्थितदेवानामिनि यैरूक्तं नमस्तेभ्यः ॥ "