आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 78, कुल 399 में से
संदर्भ में पढ़ेंअथ चतुर्थः पटलः ॥
तपः स्वाध्याय इति ब्राह्मणम् ॥ १ ॥
योऽयं नित्यस्वाध्यायस्तत्तपः कृच्छ्रातिकृच्छ्रचान्द्रायणादिलक्षणं
तपो यावत्फलं साधयति तावत्साधयतीत्यर्थः ॥ १ ॥
तत्र श्रूयते(१)स यदि तिष्ठन्नासीनः शयानो वा
स्वाध्यायमधीते तप एव तत्तप्यते तपो हि
स्वाध्याय इति ॥ २ ॥
तत्रैव ब्राह्मणे "स यदि तिष्ठन्नासीन' इत्यापत्कल्पः श्रूयते । तत्र
(२) 'दर्भाणां महदुपस्तीर्योपस्थं कृत्वा प्राङासीनः स्वाध्याय' मित्यादिर्मु-
ख्यः कल्पो(३) ब्राह्मण एवोक्तः । इह पुनरासीनवचनं यथाकथञ्चिदा-
सनार्थम् । सर्वथाऽप्यधीयानस्तप एव तत्तप्यत इति ब्राह्मणार्थः ।
मनुरप्याह—
(४)आहैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यस्स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥' इति ।
स्रग्वीति स्वैरं दर्शयति ॥ २ ॥
एवं कर्तृनियमो नाऽऽपद्यतीवाऽऽदरणीय इत्युक्त्वा कालेऽप्याह—
अथापि वाजसनेयिब्राह्मणम् (५) ब्रह्मयज्ञो ह वा एष यत्स्वा-
१. तै. आ. २. १२. अत्र सूत्रे ब्राह्मणवाक्यानुपूर्वी योपात्ता सा क्वचित् ब्राह्मणे नोपल
भ्यते । किन्तु एवमनुमीयते—तैत्तिरीयारण्यकद्वितीयप्रपाठकद्वादशानुवाकगतं “उत तिष्ठन्नत
व्रजन्नुतासीन उत शयानोऽधीतैव स्वाध्यायम्" इत्यंशं 'तप एव तत् तप्यते तपो हि स्वाध्या-
यः' इति तत्रैव त्रयोदशानुवाकगतमंशं चाऽऽदायैकीकृत्य सूत्रेऽनूदितवान् सूत्रकार इति ।
२. तै. आ. २. ११ १ ३. तैत्तिरीयारण्यके स्वाध्यायब्राह्मण इत्यर्थः ।
४. मनु. २. १६७. “यदि ह वा अप्य+यक्तोऽलंकृतस्सुहितस्सुखे शयने शयान.
स्वाध्यायमधीत आहैव स नखाग्रेभ्यस्तप्यते य एवं विद्वान् स्वाध्यायमधीते, तस्मात् स्वा
ध्यायोऽध्येतव्य.” (मा शत. ब्रा ११. ५. ३. ) इति माध्यन्दिनशतपथब्राह्मणवाक्यमू-
लेयं मानवी स्मृतिरिति भाति ।
५. इदानीमुपलभ्यमानमाध्यन्दिनशतपथब्राह्मणपंक्तिस्त्वियम्-“तस्य वा एतस्य ब्रह्म-
यज्ञस्य चत्वारो वषट्काराः यद्वातो वाति यद्विद्योतते, यत् स्तनयति यदवस्फूर्जति तस्मादेवं-
विद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामछम्बट्काराय" इति ।