आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 310, कुल 399 में से
संदर्भ में पढ़ेंउज्ज्वलोपेते द्वितीयः प्रश्नः । २९९
समाम्नानं प्रतिपदपाठः । तेन धर्मसमाप्तिः कृच्छ्रान्न शक्या कर्तुम् ।
किं तु लक्षणकर्मणा समाप्यते येन सामान्येन भिन्नानामप्यधिगमो
भवति तल्लक्षणं, तस्य कर्मणा करणेन समाप्यते । कर्मणाश्विति द्वित-
कारपाठोऽयमर्षः । आदिति वा निपातस्य प्रश्लेषः । स च सद्य
इत्यस्यार्थे द्रष्टव्यः ॥ १३ ॥
तत्र लक्षणम् ॥ १४ ॥
सर्वजनपदेष्वेकान्तसमाहितमार्याणां वृत्तं सम्य-
ग्विनीतानां वृद्धानामात्मवतामलोलुपानामदा-
म्भिकानां वृत्तसादृश्यं भजेत एवमुभौ
लोकावभिजयति ॥ १५ ॥
पूर्वेण गतम् ॥ १५ ॥
स्त्रीभ्यस्सर्ववर्णेभ्यश्च धर्मशेषान्प्रतीया-
दित्त्येक इत्येके ॥ १६ ॥
उक्तव्यतिरिक्ता ये धर्मास्ते धर्मशेषास्तान् स्त्र्यादीनामपि सकाशात्
प्रतीयादित्येके मन्यन्ते । ते च प्रतिजनपदं प्रतिकुलं च भिन्नास्तथैव प्रति-
पत्तव्याः । तत्र द्राविडाः कन्यामेषस्थे सवितर्यादित्यपूजामाचरन्ति
भूमौ मण्डलमालिख्य, इत्यादीन्युदाहरणानि । द्विरुक्तिरध्यायपरिस-
माप्त्यर्था ॥ १६ ॥
इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकोनत्रिंशी कण्डिका ॥ २९ ॥
इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ श्रीहरदत्तमिश्रविरचितायामुज्ज्वलायां
द्वितीयप्रश्ने एकादशः पटलः ॥ ११ ॥
समाप्तो द्वितीयः प्रश्नः ॥
समाप्तमिदमुज्ज्वलोज्ज्वलितमापस्तम्बधर्मसूत्रम् ॥