सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 308, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 308

साक्ष्यविधिः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। २९७
प्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न विनियोक्तुं प्रभवति । भर्त्ता तु
प्रभवति । तदेतेन वेदितव्यं ‘न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय-
मुपदिशन्ती’ति (२. १४. २०) ॥ ३ ॥
तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ॥ ४ ॥
तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः तयोरैहिकेष्वामु-
ष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनियोगेनाऽपि ॥ ४ ॥
विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो
धर्मेष्वविनिपातिनः ॥ ५ ॥
अर्थिप्रत्यर्थिनोर्विप्रतिषिद्धो वादो विवाद । तत्र विद्यादिगुणसंयु-
क्ता निर्णोतारस्स्युरिति वाक्यशेषः । विद्या अध्ययनसम्पत्, अध्ययनस-
हितं शास्त्रज्ञानं वा । अभिजनः कुलशुद्धिः । वृद्धाः परिणतवयसः । मेधा-
विनः ऊहापोहकुशलाः । धर्मेषु वर्णाश्रमप्रयुक्तेषु अविनिपातिनः, विनिपातः
प्रमादः तद्रहिताः ॥ ५ ॥
सन्देहे लिङ्गतो दैवेनेति विचित्य ॥ ६ ॥
ते च निर्णयन्तस्सन्देहस्थलेषु लिङ्गतोऽनुमानेन दैवेन तप्तमाषादिना
इतिशब्दः प्रकारे । यच्चान्यदेवंयुक्तं वचनव्याघातादि तेन च विचि
त्यार्थस्थितिमन्विष्य निर्णोतारस्स्युरित्यध्याहृतेन वाक्यपरिसमाप्तिः ॥६॥
अथ साक्ष्यविधिः—
पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभयतस्समा-
ख्याप्य सर्वानुमते मुख्यस्सत्यं प्रश्नं ब्रूयात् ॥७॥
पुण्याहो देवनक्षत्रम , प्रातर्मध्याह्नादिषु अग्नावद्धे अग्निमिध्वा तत्समीपे
अपामन्ते उदकमुपनिधाय तत्समीपे राजवति राजाधिष्ठिते सदसि । राज-
ग्रहणं प्राड्विवाकादेरुपलक्षणम् । उभयत उभयोर्थिप्रत्यर्थिनोस्समाख्या-
प्य किमहं युवयोः प्रमाणभूतः साक्षीत्यात्मानं ख्यापयित्वा । यदि वा
उभयतः उभयोरपि पक्षयोस्सत्यवचने च असत्यवचने च साक्षिणो
यद्भावि फलं तत्,
सत्यं ब्रूह्यनृतं त्यक्त्वा सत्येन स्वर्गमेष्यसि ।
(१) अनृतेन महाघोरं नरकं प्रतिपत्स्यसे ॥
१. उक्त्वाऽनृतं. इति. च. पु.
आप० ध० ३८