आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 286, कुल 399 में से
संदर्भ में पढ़ेंवानप्रस्थधर्माः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । २७५
अथ ग्रामाद्वहिररण्ये गृहान् कृत्वा सकुटुम्बस्सहैव चाग्निभिर्माद्वाहिर्र्वसेत् ।
अस्मिन्पक्षे प्रागुक्तमेकाग्निरित्येतन्नाऽस्ति ॥ ८ ॥
एको वा ॥ ९ ॥
अथवा पुत्रेषु भार्यां निक्षिप्य स्वयमेक एव वसेत् । अस्मिन् पक्षे
'प्राजापत्यां निरूप्येष्टि'मिति परिव्राज उक्तेन न्यायेन श्रौतानग्नीनात्मनि
समारोप्य श्रामणकेनाऽग्निमाधाय एकाग्निर्भवेत् ॥ ९ ॥
सिलोञ्छेन वर्त्तयेत् ॥ १० ॥
व्याख्यातः सिलोञ्छ । तेन वर्तयेत् प्राणयात्रां कुर्यात् । इदं सकु-
टुम्बस्य एकाकिनश्च साधारणम् । एकाकिन एवेत्यन्ये ॥ १० ॥
न चाऽत ऊर्ध्वं प्रतिगृह्णीयात् ॥ ११ ॥
यदा सिलोञ्छेन वृत्तिर्जाता अत ऊर्ध्वं न कुतश्चिदपि प्रतिगृह्णीयात् ॥११॥
अभिषिक्तश्च जुहुयात् ॥ १२ ॥
यदा जुहुयात्तदा अभिषिक्तः स्नातः । अनुवादोऽयं स्नाने विशेषं
विधातुम् ॥ १२ ॥
शनैरपोऽभ्युपेयादभिघ्नन्नभिमुख आदित्यमु-
दकमुपस्पृशेत् ॥ १३ ॥
शनैरवेगेन जलाशय प्रविशेत् । प्रविश्य चाऽभिघ्नन् हस्तेनोदकं ताड-
यन् उदकमुपस्पृशेत् स्नायात् आदित्याभिमुखः ॥ १३ ॥
(१)इति सर्वत्रोदकोपस्पर्शनविधिः ॥ १४ ॥
सर्ववर्णाश्रमसाधारणमेतत् । तथाचोत्तरत्र तस्य ग्रहणम् ॥ १४ ॥
तस्य द्वन्द्वद्रव्याणामेक उपदिशन्ति पाकार्थं
भोजनार्थं वासिपरशुदात्रकाजानाम् ॥ १५ ॥
यानि पाकार्थानि ताम्रभाण्डादीनि । यानि च भोजनार्थानि कां-
स्यादीनि । वासिर्द्रव्यादि । तेषां सर्वेषां वास्यादीनां चतुर्णा(२) मेकैकस्य
द्वे द्वे द्रव्ये उत्पाद्ये इत्येक उपदिशन्ति । काजमपि वास्यादिवदुपकर-
णविशेषो दारुमयः ॥ १५ ॥
द्वन्द्वानामेकैकमादायेतराणि दत्त्वाऽरण्यमवतिष्ठेत ॥ १६ ॥
१. 'इति विविः' इत्येव सूत्रम् च्छ. पु. २. एकैकस्यां विधायां इति च पु.